TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

प्रथमः पादः - सूत्र ६

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सूत्र ६
आदित्यादिमतयश्वाङ्ग उपपत्ते: ॥६॥

आदित्यादिमतयश्वाङग उपपत्ते: ॥
य एवासौ तपति तमुद्नीथमुपासीत लोकेषु पञ्चविध  सामोपासीत वाचि सप्तविध सामोपासीत इयमेवर्गग्नि: सामेत्येवमादिष्वङ्गावबद्धेषूपासनेषु संशय: किमादित्यादिषूद्नीथादिदृष्टयो विधीयन्ते किं वोद्नीथादिष्वेवादित्यादिदृष्टय इति ।
तत्रानियमो नियमकारणाभावादिति प्राप्तम् ।
न हयत्र ब्रम्हाण इव कस्यचिदुत्कर्षविशेषोऽवधार्यते ।
ब्रम्हा हि समस्तजगत्कारणत्वादपहतपाप्मत्वादिगुणयोगाच्चादित्यादिभ्य उत्कृष्टमिति शक्यमवधारयितुम् ।
न त्वदित्योद्नीथादीनां विकारत्वाविशेषात्किंचिदुत्कर्षविशेषावधारणे कारणमस्ति ।
अथ वा नियमेनैवोद्नीथादिमतय आदित्यादिष्वध्यस्येरन् । कस्मात् ।
कर्मात्मकत्वदुद्नीथादीनाम् ।
कर्मणश्च फलप्राप्तिप्रसिद्धे: ।
उद्नीथादिमतिभिरुपस्यमाना आदित्यादय: कर्मात्कमा: सन्त: फलहेतवो भविषन्ति ।
तथा चेयमेवर्गग्नि: सामेत्यत्र तदेतदेतस्यामृच्यध्यूढं सामेत्यृक्शब्देन पृथिवीं निर्दिशति सामशब्देनाग्निं तच्च पृथिव्यग्न्योऋक्सामद्दष्टिचिकीर्षायामवकल्पते न ऋक्सामयो: पृथिव्यग्निद्दष्टिचिकीर्षायाम् ।
क्षत्तरि हि राजद्दष्टिकरणाद्राजशब्द उपचर्यते न राजनि क्षत्तुशब्द: ।
अपि च लोकेषु पञ्चविध सामोपासीतेत्यधिकरणनिर्देशाल्लोकेषु सामाध्यसितव्यमिति प्रतीयते ।
एतद्नायत्रं प्राणेषु प्रोतमिति चैतद्दर्शयति ।
प्रथमनिर्दिष्टेषु चादित्यादिषु चरमनिर्दिष्टं ब्रम्हाघ्यस्तमादित्यो ब्रम्होत्यादेश इत्यादिषु ।
प्रथमनिर्दिष्टाश्च पृथिव्यादयश्वरमनिर्दिष्टा हिंकारादय: पृथिवी हिंकार इत्यादिश्रुतिषु ।
अतोऽनङ्गेष्वादित्यादिष्वङ्गमतिक्षेप इति ।
एवं प्राप्ते ब्रूम: ।
आदित्यादिमतय एवाङ्गेषूद्नीथादिषु क्षिप्येरन् । कुत: । उपपत्ते: ।
उपपद्यते हयेवमपूर्वसन्निकर्षादादित्यादिमतिभि: संस्क्रियमाणेषूद्नीथादिषु कर्मसमृद्धि: ।
यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यंवत्तर बवतीति च विद्याया: कर्मसमृद्धिहेतुता दर्शयति ।
भवतु कर्मसमृद्धिफलेष्वेवं स्वतन्त्रफलेषु तु कथं य एवदेवं विद्वाँल्लोकेषु पञ्चविधँसामोपास्त इत्यादिषु ।
तेष्वप्यधिकृताधिकारात्प्रकृतापूर्वसन्निकर्षेणिअव फलकल्पना युक्ता गोहोहनादिनियमवत् ।
फलात्म्कत्वाच्चादित्यादीनामुद्नीथादिभ्य: कर्मात्मकेभ्य उत्कर्षोपपत्ति: ।
आदित्यादिप्राप्तिलक्षणं हि कर्मफलं शिष्यते श्रुतिषु ।
अपि च ॐ मित्येतदक्षरमुद्नीथमुपासीत खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवतीति चोद्नीथमेवोपास्यत्वेनोपक्रम्यादित्यादिमतीर्विदधाति ।
यत्तूक्तमुद्रीथादिमतिभिरुपास्याअना आदित्यादय: कर्मभूयं भूत्वा फलं करिष्यन्तीति । तदयुक्तम् ।
स्वयमेवोपासनस्य कर्मत्वात्फलवत्त्वोपपत्ते: ।
आदित्यादिभावेनाइ च द्दश्यमानानामुद्राथादीनां कर्मात्मकत्वानपायात् ।
तदेतदेतस्यामृच्यध्यूढँसामोति तु लाक्षणिक एव पृथिव्यग्न्योऋकसामशब्दप्रयोग: ।
लक्षणा च यथासंभवं सन्निकृष्टेन विप्रकृष्टेन वा स्वार्थसंबन्धेन प्रवर्तते ।
तत्र यद्यपि ऋक्सामयो: पृथिव्यग्निद्दष्टिचिकीर्षा तथापि प्रतिद्धयोऋकतामयोर्भेद्देनानुकीर्तनात्पृथिव्यग्न्योश्व सन्निबानात्तयोरेवैब ऋकसामशब्दप्रयोग ऋक्तामसंबन्धादिति मिस्चीयते ।
खतृशब्दोऽपि हि कुतश्चित्कारणाद्राजानमुसर्पन्न निवारयितुं पार्यते ।
इयमेवर्गिति च यथाक्षरन्यासमुच एव वृथिवीत्वमवधारयति ।
पृथव्या तृक्त्वेऽवबार्यमाण इयमृगेवेत्यक्षरन्यात: त्यात् ।
व एवं विद्वान्साम गायतीति चाङ्गाश्रयमेव विज्ञानमुपसंहरति न पृथिषाद्याश्रयम् ।
तथा लोकेषु पञ्चविधँ सामोपासीतेति यद्यपि सप्तमीनिर्दिष्टा लोकात्सथापि साम्न्येव तेऽध्यस्येरन्द्वितीयानिर्देशेन सान्न उपास्यत्वावगमात् । तामनि हि लोकेष्वध्यस्यमानेषु साम लोकात्मनोपासितं भवति ।
अन्यथा पुनर्लोका: तामात्मनोपासिता: स्यु: ।
एतेन एतद्नायत्रं प्राणेषु प्रोतमित्यादि व्याख्यातम् ।
यन्नापि तुल्यो द्वितीयानिर्देश: अथ स्वल्वमुमादित्यँ सप्तविधँ सामोपासीतेति तन्नापि समस्तस्य खलु सान्न उपासनं साधु ।
ति तु पञ्चविधस्या अथ सप्तविवस्येति च तात्र एवोपास्यत्वोपक्रमात्तस्मिन्नेवादित्याद्यध्यास: ।
एतस्मादेव च सान्न उपास्यत्वावगमात्मृथिवी हिंकार इत्यादिनिर्देशाविपर्ययेऽपि हिंकारदिष्वेव पृथिव्यादिद्दष्टि: ।
तस्मादनङ्गाश्रया आदित्यादिमतयोऽङ्गेषूद्नथिदिषु क्षिप्येरन्निति सिद्धम् ॥६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-12-22T01:30:42.6670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

systematic botany

  • वर्गीकरणात्मक वनस्पतिशास्त्र 
  • वनस्पतीतील लक्षणांवरुन प्राकृतिक आप्तभाव ओळखून (लक्षात घेऊन) त्यांची वर्गीकरणाच्या साच्यात मांडणी करणारी विज्ञान शाखा. 
RANDOM WORD

Did you know?

श्राद्धाचें प्रयोजन काय ? आणि श्राद्धाचे चार भेद कोणते आहेत ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.