प्रथमः पादः - सूत्र ४

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


न प्रतीके न हि स: ॥४॥

न प्रतीके न हि स: ॥
मनो ब्रम्होत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रम्होति ।
तथा आदित्यो ब्रम्होत्यादेश: स यो नाम ब्रम्होत्युपास्त इत्येवमादिषु प्रतीकोपासनेषु संशय: ।
किं तेष्वप्यात्मग्रह: कर्तव्यो न वेति ।
किं तावत्प्राप्तम् ।
तेष्वप्यात्मग्रह एव युक्त: । कस्मात् ।
ब्रम्हाण: श्रुतिष्वात्मत्वेन प्रसिद्धत्वात् ।
प्रतीकानामपि ब्रम्हाविकारत्वादब्रम्हात्वे सत्यात्मत्वोपपत्तेरिति ।
एवं प्राप्ति ब्रूम: ।
न प्रतीकेष्वात्ममर्ति बध्नीयात् ।
न हि स उपासक: प्रतीकानि व्यस्तान्यात्मत्वेनाकलयेत् ।
यत्पुनर्ब्रम्हाविकारत्वात्प्रतीकानां ब्रम्हात्वं ततश्चात्मत्वमिति । तदसत् ।
प्रतीकाभावप्रसङगात् ।
विकारस्वरूपोपमर्देन हि नामादिजातस्य ब्रम्हात्वमेवाश्रितं भवति ।
स्वरूपोपमर्दे च नामादीनां कुत: प्रतीकत्वमात्मग्रहो वा ।
न च ब्रम्हाण आत्मत्वादब्रम्हाद्दष्टयुपदेशेष्वात्मद्दष्टि: कल्प्या ।
कर्तृत्वाद्यनिराअकरणात् ।
कर्तृत्वादिसर्वसंसारधर्मनिराकरणे हि ब्रम्हाण आत्मत्वोपदेशस्तदनिराकरणेन चोपासनाविधानम् ।
अतश्चोपासकस्य प्रतीकै: समत्वादात्मग्रहो नोपपद्यते ।
न हि रुचक्रस्वस्तिकयोरितरेतरात्मत्वमस्ति ।
सुवर्णात्मनैवतु ब्रम्हात्मनैकत्वे प्रतीकाभावप्रसङ्गमवोचाम ।
अतो न प्रतीकेष्वात्मद्दष्टि: क्रियते ॥४॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP