प्रथमः पादः - सूत्र ३

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥३॥

आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥
य: शास्त्रोक्तविशेषण: परमात्मा स किमहमिति ग्रहीतव्य: किं वा मदन्य इत्येतद्विचारयति ।
कथं पुनरात्मशब्दे प्रत्यगात्मविषये श्रूयमाणे संशय इति । उच्यते ।
अयमात्मशब्दो मुख्य: शक्यतेऽभ्युपगन्तुं सति जीवेश्वरयोरभेदसंभव इतरथा तु गौणोऽयमभ्युपगन्तव्य इति मन्यते ।
किं तावत्प्राप्तं नाहमिति ग्राह्या: ।
न हयपहतपाप्मत्वादिगुणो विपरीतगुणत्वेन शक्यते ग्रहीतुं विपरीतगुणो वाऽपहतपाप्मत्वादिगुनत्वेन ।
अपहतपाप्मादिगुनश्च परमेश्वरस्तद्विपरीतगुनस्तु शारीर: ।
ईश्वरस्य च संसार्यात्मत्वे ईश्वराभावप्रसङग: ।
तत: शास्त्रानर्थक्यम् ।
संसारिणोऽपीश्वरात्मत्वेऽधिकार्यभावाछास्त्रानर्थक्यमेव ।
प्रत्यक्षादिविरोधश्च ।
अन्यत्वेऽपि तादात्म्यदर्शनं शास्त्रात्कर्तव्यं प्रतिमादिष्विव विष्ण्वादिदर्शनमिति चेत्काममेवं भवतु ।
न तु संसारिणो मुख्य आत्मेश्वर इत्येतन्न: प्रापय्तव्यम् ।
एवं प्राप्ते ब्रूम: ।
आत्मेत्येव परमेवर: प्रतिपत्तव्य: ।
तथा हि परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैवैतमुपगच्छन्ति त्वं वा अहमस्मि भगवो देवते अहं त्वमसि देवत इति ।
तथाऽन्येऽपि अहं ब्रम्हास्मीत्येवमादय आत्मत्वोपगमा द्रष्टव्या: ।
ग्राहयन्ति चात्मत्वेनैवेश्वरं वेदान्तवाक्यानि एष त आत्मा सर्वान्तर:  एष त आत्माऽन्तर्याम्यमृत: तत्सत्यं स आत्मा तत्त्वमसीत्येवमादीनि ।
यदुक्तं प्रतीकदर्शनमिदं विष्णुप्रतिमान्यायेन भविष्यतीति तदयुक्तं गौणत्वप्रसङ्गत् ।
वाक्यवैरूप्याच्च ।
यत्र हि प्रतीकद्दष्टिरभिप्रेयते सकृदेव तत्र वचनं भवति ।
वथा मनो ब्रम्हा आदित्यो ब्रम्होत्यादि ।
इह पुनस्त्वमहमस्म्यहं च त्वमसीत्याह ।
अत: प्रतीकश्रुतिवैरूप्यादभेदप्रतिपत्ति: ।
भेदद्दष्टयपवादाच्च ।
तथा हि अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद मृत्यो: स मृत्युमाप्नोति य इह नानेव पश्यति सर्वं तं परादाद्योऽन्यत्रात्मन: सर्वं वेदेत्येवमाद्या भूयसी श्रुतिर्भेददर्शनमपवदति ।
यत्तूक्तं न विरुद्धगुनयोरन्योन्यात्मत्वसंभव इति ।
नायं दोष: ।
विरुद्धगुणताया मिथ्यात्वोपपत्ते: ।
यत्पुनरुक्तमीश्वराभावप्रसङ्ग इति तदसत् ।
शास्त्रप्रामाण्यादनभ्युपगमाच्च ।
न हीश्वरस्य संसार्थात्मत्वं प्रतिपाद्यत इत्यभ्युपगच्छाम: ।
किं तर्हि संसारिण: संसारित्वापोहेनेश्वरात्मत्वं प्रतिपिपादयिषितमिति ।
एवं च सत्यद्वैतेश्वरस्यापहतपाप्मत्वादिगुणता विपरीतगुनता त्वितरस्य मिथ्येति व्यवतिष्ठते ।
यदप्युक्तमधिकार्यभाव:  प्रत्यक्षादिविरोधश्चेति । तदप्यसत् ।
प्राक्प्रबोधात्संसारित्वाभुपगमात् ।
तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्य ।
यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदित्यादिना हि प्रबोधे प्रत्यक्षाद्यभावं दर्शयति ।
प्रत्यक्षाद्यभावे श्रुतेरप्यभावप्रसङ्ग इति चेत् । न । इष्टत्वात् ।
अत्र पिताऽपिता भवतीत्युपक्रम्य वेदा अवेदा इति वचनादिष्यत एवास्माभि: श्रुतेरप्यभाव: प्रबोधे ।
कस्य पुनरयमप्रबोध इति चेत् ।
यस्त्वं पृच्छसि तस्य त इति वदाम: ।
नन्वहमीश्वर एवोक्त: श्रुत्या यद्येवं प्रतिबुद्धोऽसि नास्ति कस्यचिदप्रबोध: ।
योऽपि दोषश्चोद्यते कैश्चिदविद्यया किलात्मन: सद्वितीयत्वादद्वैतानुपपत्तिरिति सोऽप्येतेन प्रत्युक्त: ।
तस्मादात्मेत्येवेश्वरे मनो दधीत ॥३॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP