द्वितीयोध्यायः - सूत्र ३८

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


फलमत उपपत्ते: ॥३८॥

फलमत उपपत्ते: ॥ तस्यैव ब्रम्हाणो व्यावहारिक्यामीशित्रीशितव्यविभागावस्थायामयमन्य: स्वभावो वर्ण्यते ।
यदेतदिष्टाइष्टाव्यामिश्रलक्षणं कर्मफलं संसारगोचरं त्रिविधं प्रसिद्धं जन्तूनां किमेतत्कर्मणो भवत्याहोस्विदीश्वरादिति भवति विचा रणा ।
तत्र तावत्प्रतिपाद्यते फलमत ईश्चराद्भवितुमर्हति । कुत: ।
उपपते: स हि सर्वाध्यक्ष: सृश्टिस्थितिसंहारान्विदधद्देशकालविशेषाभिज्ञत्वात्कर्मिणां कर्मानुरूपं फलं संपादयतीस्युपपद्यते ।
कर्मणस्त्वनुक्षणविनाशिन: कालन्तरभावि फलं भवतित्यनुपपन्नम् ।
अभावाद्भावानुपपत्ते: ।
स्यादेतत्कर्म विनश्यत्स्वकालमेव स्वानुरुपं फलं जनयित्वा विनश्यति तत्फलं कालान्तरितं कर्त्रा भोक्ष्यत इति ।
तदपि न परिशुध्यति प्रारभोक्त्रुसंबन्धात्पहलत्वानुपपत्ते: ।
यत्कालं हि यत्सुखं दु:खं वात्मना भुज्यते तस्यैव लोके फलत्वं प्रसिद्धम् ।
न हयसंबद्धस्यात्मना सुखस्य दु:खस्य वा फलत्वं प्रतियन्ति लौकिका: ।
अथोच्येत माथूत्कर्मानन्तरं फलोत्पाद: ।
कर्मकार्यादपूर्वात्फलमुत्पस्स्यत इति ।
तदपि नोपपद्यते ।
अपूवस्याचेतनस्य काष्ठलोष्टसमस्य चेतनेनाप्रवतिंतस्य प्रवृत्त्यनुपपत्ते: ।
तदस्तित्वे च प्रमाणाभावात् ।
अर्थापत्ति: प्रमाणमिति चेत् । न ।
ईश्वरसिद्धेरर्थापत्तिक्षयात् ॥३८॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP