TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

द्वितीयोध्यायः - सूत्र २२

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सूत्र २२
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय: ॥२२॥

प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय: ॥ द्वे वाव ब्रम्हाणो रूपे मूर्तं चैवामूर्तं च मर्त्यं चेत्युपक्रम्य पञ्च महाभूतानि द्वैराश्येन प्रविभज्यामूर्तरसस्य च पुरुषशब्दोदितस्य माहारजनादीनि रुपाणि दर्शयित्वा पुन: पठयतेऽथात आदेशो नेति नेति न हयेतस्मादिति नेत्यन्यत्परमस्तीति ।
तत्र कोऽस्य प्रतिषेधस्य विषय इत जिज्ञासामहे ।
न हयत्रेदं तदिति विशेषितं किंचित्प्रतिषेध्यमुपलभ्यते ।
इतिशन्देन त्वत्र प्रतिषेध्यं किमपि समर्प्यते नेति नेतीतिपरत्वान्नञ्प्रयोगस्य ।
इतिशब्दश्चायं संनिहितालम्बन एवंशब्दसमानवृत्ति : प्रयुज्यमानो दृश्यत इति ह स्मोपाध्याय: कथयतीत्येवमदिषु ।
संनिहितं चात्र प्रकरणसामर्थ्याद्रॄपद्वयं सप्रपञ्चं ब्रम्हाणस्तच्च ब्रम्हा यस्यैते द्वे रूपे ।
तत्र न: संशय उपजायते किमयं प्रतिषेधो रूपे रूपवच्चोभयमपि प्रतिषेधत्याहोस्विदेकतरम् ।
यदाप्येकतरं तदापि किं ब्रम्हा प्रतिषेधति रूपे परिशिनष्टयाहोस्विद्रूपे प्रतिषेधति ब्रम्हा परिसिनष्टीति ।
तत्र प्रकृतत्वाविशेषादुभयमपि प्रतिषेधतीत्याशङ्कामहे ।
द्वौ चैतौ प्रतिषेधौ द्विर्नेतिशब्दप्रयोगात् ।
तयोरेकेन सप्रपञ्चं ब्रम्हाणो रूपं प्रतिषिध्यतेऽपरेण रूपवदब्रम्होति भवति मति: ।
अथवा ब्रम्हौव रूपवत्प्रतिपिध्यते तद्धि वाङमनसातीतत्वादसंभाव्यमानसद्भावं प्रतिषेधार्हम् ।
न तु रूपप्रपञ्च: प्रत्यक्षादिगोचरत्वात्प्रतिषेधार्ह: ।
अभ्यासस्त्वादरार्थ इति ।
एवं प्राप्ते ब्रूम: ।
न तावदुभयरतिषेध उपपद्यते शून्यवादप्रसङ्गात् ।
किंचिद्धि परमार्थमालम्ब्यापरमार्थ: प्रतिषिध्यते यथा रज्ज्वादिषु सर्पादय: ।
तच्च परिशिष्यमाणे कस्मिंश्चिद्भावेऽवकल्पते ।
उभयप्रतिषेधे तु हि  कोऽन्यो भाव: परिशिष्येत ।
अपरिशिष्यमाणे चान्यस्मिन्य इतर; प्रतिषेध्हुमारभ्यते प्रतिषध्हुमशक्यत्वात्तस्यैव परमार्थत्वापत्ते: प्रतिषेधानुपपत्ति: ।
नापि ब्रम्हाप्रतिषेध उपपद्यते ब्रम्हा ते ब्रवाणीत्याद्युपक्रमविरोधात् ।
असन्नेव स भवति ।
असब्दब्र्म्होति वेद चेदियादिनिन्दाविरोधात् ।
अस्तीत्येवोपलब्धव्य इत्यवधारणविरोधात् ।
सर्वबेदान्तव्याकोपप्रसङ्गाच्च ।
वाङमनसातीतत्वमपि ब्रम्हाणो नाभावाभिप्रायेनाभिधीयते ।
न हि महता परिकरबन्धेन ब्रम्हाविदाप्नोति परं सत्यं ज्ञानमनन्त ब्रम्होत्येवमादिना वेदान्तेषु ब्रम्हा प्रतिपाद्य तस्यैव पुनरभावोऽभिलप्येत ।
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरमिति हि न्या: ।
प्रतिपादनप्रक्रिया त्वेषा यतो वाचो निवर्तन्ते ।
अप्राप्य मनसा सहेति ।
एतदुक्तं भवति वाङमनसातीतमविषयान्त: पातिप्रत्यगात्मभूतं नित्यशुद्धबुद्धौक्तस्वभावं ब्रम्होति ।
तस्मादब्रम्हाणो रूपप्रपञ्चं प्रतिषेधति परिशिनष्टि ब्रम्होत्यवगन्तव्यम् ।
तदेतदुच्यते प्रकृतैतावत्त्वं हि प्रतिषेधतीति ।
प्रकृतं यदेतावदियत्तापरिच्छिन्न मूर्तामूर्तलक्षण ब्रम्हाणो रूपं तदेष शब्द: प्रतिषेधति ।
तद्धि प्रकृतं प्रपञ्चितं च पूर्वत्मिन्ग्रन्थेऽधिदैवतमध्यात्मं च ।
तज्जनितमेव च वासनालक्शणमपरं रूपममूर्तरसभूतं पुरुषसब्दोदितं लिङगात्मव्यपाश्रयं माहारजनाद्युपमाभिर्दर्शितम् ।
अमूर्तरसस्य पुरुषस्य चक्षुर्ग्राहयरूपयोगित्वानुपपत्ते: ।
तदेतत्सप्रपञ्चं ब्रम्हाणो रूपं संनिहितालम्बनेनेतिकरणेन प्रतिषेधकं नयं प्रत्युपनीयत इति गम्यते ।
ब्रम्हा तु रूपविशेषणत्वेन षष्ठया निर्दिष्टं पूर्वस्मिन्ग्रन्थे न स्वप्रधानस्वेन ।
प्रपञ्चिते च तदीये रूपद्वये रूपवत: स्वरूपजिज्ञासायामिदमुपक्रमन्तमथात आदेशो नेति नेतीति ।
तत्र कल्पितरूपप्रत्याखानेन ब्रम्हाण: स्वरूपावेदनमिदमिति निर्णीयते ।
तदास्पदं हीदं समस्तं कार्यं नेति नेतीति प्रतिषिद्धम् ।
युक्तं च कार्यस्य वाचरम्भणशब्दादिभ्योऽसत्त्वमिति नेति नेतीति प्रतिषेधनम् ।
न तु ब्रम्हाण: ।
सर्वकल्पनामूलत्वात् ।
न चात्रेयमाशङ्का कर्तव्या ।
कथंहि शास्त्रं स्वयमव ब्रम्हाणो रूपद्वयं दर्शयित्वा स्वयमेव पुन: प्रतिशेधति प्रक्षालनाद्धि पङकस्य दूरादस्पर्शनं वरीमति ।
यतो नेदं शास्त्रं प्रतिपाद्यत्वेन ब्रम्हाणो रूपद्वयं निर्दिशति लोकप्रसिद्धं त्विदं रूपद्वयं ब्रम्हाणि कल्पितं परामृशति प्रतिषेध्यत्वाय शुद्धब्रम्हास्वरूपप्रतिपादनाय चेति निरवद्यम् ।
द्वौ चैतौ प्रतिषेधौ यथासङ्ख्यन्यायेन द्वे अपि मूर्तामूर्ते प्रतिषेधत: ।
यद्वा पूर्व: प्रतिषेधो भूतराशिं प्रतिषेधत्युत्तरो वासनाराशिम् ।
अथवा नेति नेतीति वीप्सेयमितीति यावत्किंचिदुत्प्रेक्ष्यते तत्सर्वं न भवतीत्यर्थ: ।
परिगणितप्रतिषेधेहि क्रियमाणे यदि नैतदब्रम्हा किमन्यदब्रम्हा भवेदिति जिज्ञासा स्यात् ।
वीप्सायां तु सत्यां समस्तस्य विषयजातस्य प्रतिषेधादविषय: प्रत्यगात्मा ब्रम्होति जिज्ञासा निवर्तते ।
तस्मात्प्रपञ्चमेव ब्रम्हाणि कल्पितं प्रतिषेधाद्भूयो ब्रवीत्यन्यत्परमस्तीति ।
अभावावसाने हि प्रतिषेधे क्रियमाणे किमन्यत्परमस्तीति ब्रूयात् ।
तत्रैषाऽक्षरयोजना नेति नेतीति ब्रम्हादिश्य तमेवादेसं पुनर्विवक्ति ।
नेतिनेतीत्यस्य कोऽर्थ: ।
न हयेतस्मादब्रम्हाणो व्यतिरिक्तमस्तीत्यतो नेति नेतीत्युच्यते न पुन: स्वयमेव नास्तीत्यर्थ: ।
तच्च दर्शयत्यन्यत्परमप्रतिषिद्धं ब्रम्हास्तीति ।
यदा पुनरेवमक्षराणि योज्यन्ते न हयेतस्मादिति नेति नेति ।
नहि प्रपञ्चप्रतिषेधरुपादादेशानादन्यत्परमादेश नं ब्रम्हाणोऽस्तीति ।
तदा ततो ब्रवीति च भूय इत्येतन्नामधेयविषयं योजयितव्यम् ।
अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यमिति हि ब्रवीतीति ।
तच्च ब्रम्हावसाने प्रतिषेधे समञ्जसं भवति ।
अभावावसाने तु प्रतिषेधे किं सत्यस्य सत्यमित्युच्येत ।
तस्मादब्रम्हावसानोऽयं प्रतिषेधो नाभावावसान इत्यध्यवस्याम: ॥२२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-12-20T01:57:02.2300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

driving sheave

  • चालन खाचकप्पी 
RANDOM WORD

Did you know?

How do I contact you?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site