TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

द्वितीयोध्यायः - सूत्र २१

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सूत्र २१
दर्शनाच्च ॥२१॥

दर्शनाच्च । दर्शयति च श्रुति: परस्यैव ब्रम्हाणो देहादिषूपाधिष्वन्तरनुप्रवेशम् - पुरश्चक्रे द्विपद: पुरश्चके चतुष्पद: ।
पुर: स पक्षी भूत्वा पुर: पुरुष आविशतिति ।
अनेन जीवेनात्मनानुप्रविश्येति च ।
तस्माद्युक्तमेतदत एव चोपमासूर्यकादिवदिति ।
तस्मान्निर्विकल्पकैकलिड्गमेव ब्रम्हा नोभयलिङ्गं विपरीतलिङ्गं चेति सिद्धम् ।
अत्र केचिद्द्वे अधिकरणे कल्पयन्ति ।
प्रथमं तावत्किं प्रत्यस्तमिताशेषप्रपञ्चमेकाकारं ब्रम्होत प्रपञ्चवदनेकाकारोपेतमिति ।
द्वितीयं तु स्थिते प्रत्यस्तमितप्रपञ्चत्वे किं सल्लक्षणं ब्रम्होत बोधलक्षणमुतोभयलक्षणमिति ।
अत्र वयं वदाम: सर्वथाप्यानर्थक्यमधिकरणान्तरारम्भस्येति ।
यदि तावदनेकलिङ्गत्वं परस्य ब्रम्हाणो निराकर्तव्यमित्ययं प्रयासस्तत्पूर्वेणैव न स्थानतोऽपीत्यनेनाधिकरणेन निराकृतमित्युत्तरमधिकरणं प्रकाशवच्चैतव्द्यर्थमेव भवेत् ।
न च सल्लक्षणमेव ब्रम्हा न बोधलक्षणमिति शक्यं वक्तुम् ।
विज्ञानघन एवेत्यादिश्रुतिवैयर्थ्यप्रसङ्गात् ।
कथं वा निरस्तचैतर्न्यं ब्रम्हा चेतनस्य जीवस्यात्मत्वेनोपदिश्येत ।
नापि बोधलक्षणमेव ब्रम्हा न सल्लक्षमिति शक्यं वक्तुमस्तित्येवोपलब्धव्य इत्यादिश्रुतिवैयर्थ्यप्रसङ्गात् ।
कथं वा निरस्तसत्ताको बोधोऽभ्य्पगम्येत ।
नाप्युभयलक्षणचेव ब्रम्होति शक्यं वक्तुम् ।
पूर्वाभ्युपगमविरोधप्रसङ्गात् ।
सत्ताव्यावृत्तेन च बोधेन बोधव्यावृत्तया च सत्तयोपेतं ब्रम्हा प्रतिजानानस्य तदेव पूर्वाध्करणप्रतिषिद्धं सप्रपञ्चत्वं प्रसज्येत ।
श्रुतत्वाददोष इति चेत् । न ।
एकस्यानेकस्वाभावत्वानुपपत्ते: ।
अथ सत्तैव बोधो बोध एव च सत्ता नानयो: परस्परव्यावृत्तिरस्तीति यद्युच्येत तथापि किं सल्लक्षणं ब्रम्होत बोधलक्षणमुतोभयलक्षणमित्ययं विकल्पो निरालम्बन एव स्या‍त् ।
 सूत्राणित्वेकाधिकरणत्वेनैवास्माभिर्नीतानि ।
अपि च ब्रम्हाविषयसु श्रुतिष्वाकारवदनाकारप्रतिपादनेन विप्रतिपन्नास्वनाकारे ब्रम्हाणि परिगृहीतेऽवश्यं वक्तव्येतरासां शृतीनां गति: ।
तादर्थ्येन प्रकाशावञ्चत्यादीनि सूत्राण्यर्थवत्तराणि संपद्यन्ते ।
यदप्याहुराकारवादिन्योऽपि श्रुतय: प्रपञ्चप्रविलयमुखेनानाकारप्रतिपत्त्यर्था एव न पृथगर्थ ऐति तदपि न समीचीनमिव लक्ष्यते । कथम् ।
ये हि परविद्याधिकारे केचित्प्रपञ्चा उच्यन्ते यथा युक्ता हयस्य हरय: शता दर्शत्ययं वै  हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि चेत्येवमादयस्ते भवन्ति प्रविलयार्थास्तदेतदब्रम्हापूर्वमनपरमनन्तरमबाहयमित्युपसंहारात् ।
ये पुनरुपासनाविधानाधिकारे प्रपञ्चा उच्यन्ते यथा मनोमय: प्राणशरीरो भारूप इत्येवमादयो न तेषां प्रविलयार्थत्वं न्याय्यं स क्रतुं कुर्वीतेत्येवंजातीयकेन प्रकृतेनैवोपासनविधिना तेषां संबन्धात् ।
श्रुत्या चैवंजातीयकानां गुणानामुपासनार्थत्वेऽवकल्प्यमाने न लक्षणया प्रविलयार्थत्वमवकल्पते ।
सर्वेषां च साधारणे प्रविलयार्थत्वे सत्यरूपवदेव हि तत्प्रधानत्वादिति विनिगमनकारणवचनमनवकाशं स्यात् ।
फलमप्येषां यथोपदेशं क्वचिद्दुरितक्षय: क्वचिदैश्वर्यप्राप्ति: क्वचित्क्रमनुक्तिरित्यवगम्यत एवेत्यत: पार्थगर्थ्यमेवोपासनावाक्यानां ब्रम्हावाक्यानां च न्यायं नैकवाक्यत्वम् ।
कथं चैषामेकवाक्यतोत्प्रेक्ष्यत ति वक्तव्यम् ।
एकनियोगप्रतीते: प्रयाजदर्शपूर्वमासवाक्यवदिति चेत् । न ।
ब्रम्हावाक्येषु नियोगाभावात् ।
वस्तुमात्रपर्यवसायीनि हि ब्रम्हावाक्यानि न नियोगोपदेशींनीत्येतद्विस्तरेण प्रतिष्टापितं तत्तु समन्वयादित्यत्र ।
किंविषयश्चात्र नियोगोऽभिप्रेयत इति वक्तव्यम् ।
पुरुषो हि नियुज्यमान: कुर्विति स्वव्यापारे कस्मिंश्चिन्नियुज्यते ।
ननु द्वैतप्रपञ्चप्रविलयो नियोगविषयो भविष्यति ।
अप्रविलपिते हि द्वैतप्रपञ्चे ब्रम्हातत्त्वावबोधो न भवत्यतो ब्रम्हातत्त्वावबोधप्रत्यंनीकभूतो द्वैतप्रपञ्च: प्रविलाप्य: ।
यथा स्वर्गकामस्य यागोऽनुष्ठातव्य उपदिश्यते एवमपवर्गकामस्य प्रपञ्चप्रविलय: ।
यथा च तमसि व्यवस्थितं घटादितत्त्वमवबुभुत्समानेन तत्प्रत्यनीकभूतं तम: प्रविलाप्यत एवं ब्रम्हातत्त्वमवबुभुत्समानेन तत्प्रत्यनीकभूत: प्रपञ्च: प्रविलापयितव्य: ।
ब्रम्हास्वभावो  हि प्रपञ्चो न प्रपञ्चस्वभावं ब्रम्हा तेन नामरूपप्रपञ्चप्रविलापनेन ब्रम्हातत्त्वावबोधो भवतीति ।
अत्र वयं पृच्छाम: कोऽयं प्रपञ्चप्रविलयो नाम ।
किमग्निप्रतापसंपर्काद्धृतकाठिन्यप्रविलय इव प्रपञ्चप्रविलय: कर्तव्य आहोस्विदेकस्मिंश्चन्द्रे तिमिरकृतानेकचन्द्रप्रपञ्चवदिवद्याकृतो ब्रम्हाणि नामरूपप्रपञ्चो विद्यया प्रविलापयितव्य इति ।
तत्र यदितावद्विद्यमानोऽयं प्रपञ्चो देहादिलक्षण आध्यात्मिको बाहयश्च पृथिव्यादिलक्षण: प्रविलापयित्व्य इत्युच्येत स पुरुषमात्रेणाशाक्य: प्रविलापयित्युमिति तत्प्रविलयोपदेशोऽशक्यविषय एव स्यात् ।
एकेन चादिमुक्तेन पृथिव्यादिप्रविलय: कृत इतीदानीं पृथिव्यादिशून्यं जगदभविष्यत् ।
अथाविद्याध्यस्तो ब्रम्हापयेकस्मिनायं प्रपञ्चो विद्यया प्रविलाप्यत इति ब्रूयात् ।
ततो ब्रम्हौवाविद्याध्यस्तप्रपञ्चप्रत्याख्यानेनावेदयितव्यमेकमेवाद्वितीयं ब्रम्हा तत्सत्यं स आत्मा तत्त्वमसीति ।
तस्मिनावेदिते विद्या स्वयमेवोत्पद्यते तथा चाविद्या बाध्यते ततश्चाविद्याध्यस्त: सकलोऽयं नामरूपप्रपञ्च: स्वप्नप्रपञ्चवत्प्रविलीयते ।
अनावेदिते तु ब्रम्हाणि ब्रम्हाविज्ञानं क्रुरु प्रपञ्चप्रविलयं चेति शतकृत्वोऽप्युक्ते न ब्रम्हाविज्ञानं प्रपञ्चप्रविलयो वा जायते ।
नन्वावेदिते ब्रम्हाणि तद्विज्ञानविषय: प्रपञ्चप्रविलयविषयो वा नियो्ग: स्यात् ।
न निष्प्रपञ्चब्रम्हात्मत्वावेदनेनैवोभयसिद्धे: ।
रज्जुस्वरूपप्रकासनेनैव हि तत्स्वरूपविज्ञानमविद्याध्यस्तसर्पादिप्रपञ्चप्रविलयश्च भवति ।
न च कृतमेव पुन: क्रियते ।
नियोज्योऽपि च प्रपञ्चावस्थायां योऽवगम्यते जीवो नाम स प्रपञ्चपक्षस्यैव वा स्यादब्रम्हापक्षस्यैव वा ।
प्रथमे विकल्पे निष्प्रपञ्चब्रम्हातत्त्वप्रतिपादनेन पृथिव्यादिवज्जीवस्यापि प्रविलापितत्व्रात्कस्य प्रपञ्चविलये नियो्ग उच्येत कस्य वा नियोगनिष्ठतया मोक्षोऽवाप्तव्य उच्येत ।
द्वितीयेऽपि ब्रम्हौवानियोज्यस्वभावं जीवस्य स्वरूपं जीवत्वं जीवत्वं त्वविद्याकृतमेवेति प्रतिपादिते ब्रम्हाणि नियोज्याभावान्नियोगाभाव एव ।
द्रष्टव्यादिशब्दा अपि परविद्याधिकारपठितास्तत्त्वाभिमुखीकरणप्रधाना न तत्त्वावबोधविधिप्रधाना भवन्ति ।
लोकेऽपीदं पश्येदमाकर्णयेति चैवंजातीयकेषु निर्देशेषु प्रणिधानमात्रं कुर्वित्यौच्यते न साक्षाज्ज्ञानमेव कुर्विति ।
ज्ञेयाभिमुखस्यापि ज्ञानं कदाचिज्जायते कदाचिन्न जायते तस्मात्तं प्रतिज्ञानविषय एव दर्शयितव्यो ज्ञापयितुकामेन ।
तस्मिन्दर्शिते स्वयमेव यथाविषयं यथाप्रमाणं च ज्ञानमुत्पद्यते ।
न च प्रमाणान्तरेणान्यथाप्रसिद्धेऽर्थेऽन्यथाज्ञानं नियुक्तस्याप्युपपद्यते ।
यदि पुनर्नियुक्तोऽहमित्यन्यथा ज्ञानं कुर्यान्न तु तज्ज्ञानं किं तर्हि मानसी सा क्रिया ।
स्वयमेव चेदन्यथोत्पद्येत भ्रान्तिरेव स्यात् ।
ज्ञानं तुप्रमाणजन्यं यथाबूतविषयं च न तन्नियोगशतेनापि कारयितुं शक्यते ।
न च प्रतिषेधशतेनापि वारयितुं शक्यतै ।
न हि तत्पुरुषतन्त्रम वस्तुतन्त्रमेव हि तत् ।
अतोऽपि नियोगाभाव: ।
किंचान्यन्नियोगनिष्ठतयैव पर्यवस्यत्यान्नाये यदभ्युपगतमनियोज्यब्रम्हात्मत्वं जीवस्य तदप्रमाणक्रमेवं स्यात् ।
अथ शास्त्रमेवानियोज्यब्रम्हात्मत्वमाचंक्षीत तदवबोधे च पुरुषं नियुञ्जीत ततो ब्रम्हाशास्त्रस्यैकस्य व्द्यर्थपरता विरुद्धार्थपरता च प्रसज्येयाताम् ।
नियोगपरतायां च श्रुतहानिरश्रुतकल्पना कर्मफलवन्मोक्षस्यादृष्टफलत्वमनित्यत्वं चेत्येवमादयो दोषा न केनचित्परिहर्तुं शक्या: ।
तस्मादवगतिनिष्ठान्येव ब्रम्हावाक्यानि न नियोगनिष्ठानि ।
अतश्वैकनियोगप्रतीतेरेकवाक्यतेत्ययुक्तम् ।
अभ्युपगम्यमानेऽपि च ब्रम्हावाक्येषु नियोगसद्भावे तदेकत्वं निष्प्रपञ्चोपदेशेषु सप्रपञ्चोपदेशेषु चासिद्धम् ।
न हि शाब्दान्तरादिभि: प्रमाणौर्नियोगभेदे गम्यमाने सर्वत्रैको नियोग इति शक्यमाश्रयितुम् ।
प्रयाजर्शपूर्णमासवाक्येषु त्वधिकारांशेनाभेदाद्युक्तमेकत्वम् ।
न त्विह सगुणनिर्गुणचोदनासु कश्चिदेकत्वाधिकारांशोऽस्ति ।
न हि भारूपत्वादयो गुणा: प्रपञ्चप्रविलयोपकारिण: ।
नापि प्रपञ्चप्रविलयो भारूपत्वादिगुणोपकारी परस्परविरोधित्वात् ।
न हि कृत्स्नप्रपञ्चप्रविलापनं प्रपञ्चैकदेशापेक्षणं चैकस्मिन्धर्मिणि युक्तं समावेशयितुम् ।
तस्मादस्मुक्त एव विभाग आकारवदनाकारोपेदेशानां युक्ततर इति ॥२१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-12-20T01:56:21.7430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

monetized

  • मुद्रीकृत 
RANDOM WORD

Did you know?

गांवे, नद्या, समुद्र, देवदेवता किंवा अन्य नांवांची उत्पत्ती काय असेल? नांवे कशी पडली असतील?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.