द्वितीयोध्यायः - सूत्र १२

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


न भेदादिति चेन्न प्रत्येककमतद्वचनात् ॥१२॥

न भेदादिति चेन्न प्रत्येककमतद्वचनात् ॥ अथापि स्याद्यदुक्तं निर्विकल्पकमेकलिङ्गमेव ब्रम्हा नास्य स्वत: स्थानतो वोभयलिङ्गत्वमस्तीति ।
तन्नोपपद्यते । कस्मात् ।
भेदात् ।
भिन्ना हि प्रतिविद्यं ब्रम्हाण आकारा उपदिश्यन्ते ।
चतुष्पादब्रम्हा षोडशकलं ब्रम्हा वामनीत्वादिलक्षणम ब्रम्हा त्रैलोक्यशरीरवैश्वानरशब्दोदितं ब्रम्होत्येवं जातीयका: ।
तस्मात्सविशेषत्वमपि ब्रम्हाणोऽभ्युपगन्तव्यम् ।
ननूक्तं नोभयलिङ्गत्वं ब्रम्हाण: संभवतीति ।
अयमप्यविरोध: ।
उपाधिकृतत्वादाकारभेदस्य ।
अन्यथा हि निर्विषयमेव भेदशास्त्रं प्रसज्येतेति चेत् ।
नेति ब्रूम: । कस्मात् ।
प्रत्येकमतद्वचनात् ।
प्रत्युपाधिभेदं हयभेदमेव ब्रम्हाण: श्रावयति शास्त्रं यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमय: पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमय: पुरुषोऽयमेव स योऽयमात्मेत्यादि ।
अतश्च न भिन्नाकारयोगो ब्रम्हाण: शास्त्रीय इति शक्यते वक्तुम् ।
भेदस्योपासनार्थत्वादभेदे तात्पर्यात् ॥१२॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP