TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

द्वितीयोध्यायः - सूत्र ५-६

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सूत्र ५-६
पराभिध्यानात्तु तिरोहितं ततो हयस्य नन्धविपर्ययौ ॥५॥

पराभिध्यानात्तु तिरोहितं ततो हयस्य नन्धविपर्ययौ ॥ अथापि स्यात्परस्यैव तावदात्मनोंऽशो जीवोऽग्नेरिव विस्फुलिङ्ग ।
तत्रैवं सति यथाग्निविस्फुलिङ्गयो: समाने दहनप्रकासनशक्ती भवत एवं जीवेश्वरयोरपि ज्ञानैश्चर्यशक्ती ततश्च जीवस्य ज्ञानैश्चर्यवशात्साङ्कल्पिकी स्वप्ने रथादिसृष्टिर्भविष्यतीति ।
अत्रोच्यते - सत्यपि जीवेश्वरयोरंशांशीभावे प्रत्यक्षमेव जीवस्येश्चरविपरीतधर्मत्वम् ।
किं पुनर्जीवस्येश्वरसमानधर्मत्वं नास्त्येव ।
न नास्त्येव ।
विद्यमानमपि तु तत्तिरोहितमविद्यादिव्यवधानात् ।
तत्पुनस्तिरोहितं सत्परमेश्वरमभिध्यायतो य्तमानस्य जन्तोर्विधूतध्वान्तस्य तिमिरतिरस्कृतेव द्दक्शशक्तिरीषधवीर्यादीश्वरप्रसादात्संसिद्धस्य कस्यचिदेवाविर्भवति न स्वभावत एव सर्वेषां जन्तूनाम् ।
कुतस्ततो हीश्चराद्धेतोरस्य जीवस्य बन्धमोक्षौ भवत: ।
ईश्वरस्वरूपापरिज्ञानाद्बन्धस्तत्स्वरूपपरिज्ञानात्तु मोष: ।
तथा च श्रुति: - ज्ञात्वा देवं सर्वपाशापहानि: क्षीणै: क्लेशैर्जन्ममृत्युप्रहाणि: ।
तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकाम इत्येवमाद्या ॥५॥

देहयोगाद्वा सोऽपि ॥६॥

देहयोगाद्वा सोऽपि ॥ कस्मात्पुनर्जीव: परमात्मांश एव संस्तिरस्कृतज्ञानैश्चर्यो भवत्ति ।
युक्तं तु ज्ञानैश्वर्ययोरतिरस्कृतत्वं विस्फुलिङ्गस्येव दहनप्रकाशानयोरिति ।
उच्यते । सत्य्मेवैतत् ।
सोऽपि तु जीवस्य ज्ञानैश्वर्यतिरोभावो देहयोगादेहेन्द्रियमनोबुद्धि विषयवेदनादियोगाद्भवति ।
अस्ति चात्रोपमा यथाग्नेर्दहनप्रकाशनसंपन्नस्याप्यरणिगतस्य दहनप्रकाशन तिरोहिते भवतो यथा वा भस्मच्छन्नस्य ।
एवमविद्याप्रत्युपस्थापितनामरूपकृतदेहाद्य्पाधियोगात्तदविवेकभ्रमकृतो जीवस्य ज्ञानैस्वर्यतिरोभाव: ।
वाशब्दो जीवेश्वरयोरन्यत्वाशङ्काव्यावृत्त्यर्थ: ।
नन्वन्य एव जीव ईश्वराद्स्तु तिरस्कृतज्ञानैश्वर्यत्वात्किं देहयोगकल्पनया ।
नेत्युच्यते ।
न हयन्यत्वं जीवस्येश्वारदुपपद्यते सेयं देवतैक्षत इत्युपक्रम्यानेन जीवेमात्मनानुप्रविश्येत्यात्मशब्देन जीवस्य परामर्शात् ।
तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इतिच जीवायोपदिसतीश्वरात्मत्वम् ।
अतोऽनन्य एवेश्वराज्जीव: सन्देहयोगात्तिरोहितज्ञानैश्वर्यो भवति \
अतश्च न साङकल्पिकी जीवस्य स्वप्ने रथादिसृष्टिर्घटते ।
यदि च साङ्कल्पिकी स्वप्ने रथादि सृष्टि: स्यान्नैवानिष्टं कश्चित्स्वप्नं पश्येत् ।
न हि कश्चिदनिष्टं संकल्पयते ।
यत्पुनरुक्त जागरितदेश्रुति: स्वप्नस्य सत्यत्वं स्थापयतीति न तत्साम्यवचनं सत्यत्वाभिप्रायं स्वयंज्योतिष्ट्वविरोधात् ।
श्रुत्यैव च स्वप्ने रथाद्यभावस्य दर्शितत्वात् ।
जागरितप्रभववासनानिर्मितत्वात्तु स्वप्नस्य तत्तुल्यनिर्भासत्वाभिप्राय तत् ।
तस्मादुपपन्नं स्वप्नस्यमायामात्रत्वम् ॥६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-12-19T21:54:48.6330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अष्टभाव

  • (अ) १. स्तंभ, २. स्वेद, ३. रोमांच, ४. स्वरभंग, (वैस्वर्य) 
  • ५. कंप किंवा वेपथु, ६. वैवर्ण्य, ७. अश्रुपात, ८. प्रलय. (आ) १. कंप, २. रोमांच, ३. स्फुरण, ४. प्रेमाश्रु, ५. स्वेद, ६. हास्य, ७. लास्य, ८. गायन. 
RANDOM WORD

Did you know?

मराठीत जुन्या कवींच्या साधारण किती कविता उपलब्ध असतील?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.