द्वितीयोध्यायः - सूत्र ३

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥३॥

एवं प्राप्ते प्रत्याह ॥ मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ।
तुशब्द: पक्षं व्यावर्तयति ।
नैतदस्ति यदुक्तं सन्ध्ये सृष्टि: पारमार्थिकीति ।
मायामय्येव सन्ध्ये सृष्टिर्न परमार्थंगन्धोऽपस्ति ।
कुत: ।
कार्न्स्न्येनानभिव्यक्तस्वरूपत्वात् ।
न हि कार्त्स्न्येन परमार्थवस्तुधर्मेणाभिव्यक्तस्वरूप: स्वप्न: ।
किं पुनरत्र कार्त्स्न्यमभिप्रेतं देशका लनिमित्तसंपत्तिरबाधश्च ।
न हि परमार्थंवस्तुविषयाणि देशकालनिमितान्यबाधश्च स्वप्ने संभाव्यते ।
न तावत्स्वप्ने रथादीनामुचितो देश: संभवति ।
न तावत्संवृते देहदेशे रथादयो‍ऽवकाशं लभेरन् । स्यादेतत् ।
बर्हिर्देहात्स्वप्नं द्रक्ष्यति द्रक्ष्यति देशान्तरितद्रव्यग्रहणात् ।
दर्शयति च श्रुतिर्बहिर्देहात्स्वप्नं बहि:ष्कुलायादमृतश्चरित्वा स ईयते अमृतो यत्र कामिति ।
स्थितिगतिप्रत्ययभेदश्च नानिष्कान्ते जन्तौ सामञ्जस्यमश्रुवीतेति ।
नेत्युच्यते । न हि सुप्तस्य जन्तो: क्षणमात्रेण योजनसतान्तरित्म देश पर्येतुं विपर्येतुं च तत: सामर्थं संभाव्यते ।
क्वचिच्च प्रत्यागमनवर्जितं स्वप्नं श्रावयति कुरुष्वहमथ शयानो निद्रयाभिप्लुत: स्वप्ने पञ्चालानभिगतश्चासिमिन्प्रतिबुद्धश्चेति ।
देहाश्चेदपेयात्पञ्चालेष्वेव प्रतिबुध्येत तानसावभिगत इति कुरुष्वेव तु प्रतिबुध्यते ।
येन चायं हेहेन देशान्तरमश्नुवानो मन्यते तमन्ये पार्श्चस्था: शयनदेश एव पश्यन्ति ।
यथाभूतानि चायं देशान्तराणि स्वप्ने पश्यति न तानि तथाभूतान्येव भवन्ति ।
परिधावंश्चेत्पश्येज्जग्रद्वद्वस्तुभूतमर्थमाकलयेत् ।
दर्शयति च श्रुरिरन्तरेव देहे स्वप्नं स यत्रैतत्स्वप्नयाचरतीत्युपकम्य स्वे शरीरे यथाकामं परिवर्तत इति ।
अतश्च श्रुत्युपपत्तिविरोधाद्वहि: कुलाय श्रुतिर्गौंणी व्याख्यातव्या वहिरिवकुलायाअमृतश्चरित्वेति यो हि वसन्नपि शरीरे न तेन प्रयोजनं करोति स बहिरिव शरीरादवर्तीति ।
स्थितिगतिप्रत्ययभेदोऽप्येवं सति विप्रलम्भ एवाप्युप्गन्तव्य: ।
कालविसंवादोऽपि च स्वप्ने भवति रजन्यां सुप्तो वासरं भारते वर्षे मन्यते तथा मुहूर्तमात्रप्रवर्तिनि स्वप्ने कदाचिद्बहून्वर्षपूगानतिवाहयति ।
निमित्तान्यपि च स्वप्ने बुद्धये कर्मणे वोचितानि विद्यन्ते ।
करणोपसंहाराद्धि नास्य रथादिग्रहणाय चक्षुरादीनि सन्ति ।
रथादिनिर्वर्तनेऽपि कुतोऽस्य निमेषमात्रेण सामर्थ्यं दारुणि वा ।
बाध्यन्ते चैते रथादय:  स्वप्नद्दष्टा: प्रबोधे ।
स्वप्न एव चैते सुलभबाधा भवन्ति ।
आद्यन्ययोर्व्यभिचारदर्शनात् ।
रथोऽयमिति हि कदाचित्स्वप्ने निर्धारित:क्षणे मनुष्य: संपद्यते गनुष्योऽयमिति वा निर्धारित: क्षेणन वृक्ष: ।
स्पष्टं चाभावं रथादीनां स्वप्ने श्रईवयति शास्त्रं न तत्र रथा रथयोगा न पन्थानो भवन्तीत्यादि ।
तस्मान्मायामात्रं स्वप्नदर्शनम् ॥३॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP