मराठी मुख्य सूची|स्तोत्रे|गुरु स्तोत्रे|
नालीकनीकाशपदादृताभ्यां ना...

श्रीगुरुपादुकास्तोत्रम् - नालीकनीकाशपदादृताभ्यां ना...

गुरु म्हणजे शिक्षक ज्ञान देणारा. खरे तर आई हीच पहिली गुरु होय.


नालीकनीकाशपदादृताभ्यां
नारीविमोहादिनिवारकाभ्याम् ।
नमज्जनाभीष्टततिप्रदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥१॥
शमादिषट्कप्रदवैभवाभ्यां
समाधिदानव्रतदीक्षिताभ्याम् ।
रमाधवांघ्रि स्थिरभक्तिदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥२॥
नृपालिमौलिव्रजरत्नकान्ति-
सरिद्विराजज्झषकन्यकाभ्याम् ।
नृपत्वदाभ्यां नतलोकपंक्तेः
नमो नमः श्रीगुरुपादुकाभ्याम् ॥३॥
अनन्तसंसारसमुद्रतार
नौकायिताभ्यां गुरुभक्तिदाभ्याम् ।
वैराग्यसाम्राज्यदपूजनाभ्या
नमो नमः श्रीगुरुपादुकाभ्याम् ॥४॥
पापान्धकारार्कपरम्पराभ्यां
तापत्रयाहीन्द्रखगेश्वराभ्याम् ।
जाड्याब्धिसंशोषणबाडवाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥५॥
कवित्ववाराशिनिशाकराभ्यां
दारिद्र्‌यदावाम्बुधिमालिकाभ्याम् ।
दूरीकृतानम्रविपत्ततिभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥६॥
नता ययोः श्रीपतितां समीयुः
कदाचिदप्याशु दरिद्रवर्याः ।
मूकश्च वाचस्पतितां हि ताभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥७॥
कामादिसर्पव्रजभञ्जकाभ्या
विवेकवैराग्यनिधिप्रदाभ्याम् ।
बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥८॥
स्वार्चापराणामखिलेष्टदाभ्या
स्वाहासहायाक्षधुरंधराभ्याम् ।
स्वान्ताच्छभावप्रदपूजनाभ्यां
॥इति श्रीगुरुपादुकास्तोत्रम्॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP