मराठी मुख्य सूची|स्तोत्रे|गुरु स्तोत्रे|
श्रीगुरुभ्यो नमः शङ्कारूप...

श्रीगुरुवन्दनम् - श्रीगुरुभ्यो नमः शङ्कारूप...

गुरु म्हणजे शिक्षक ज्ञान देणारा. खरे तर आई हीच पहिली गुरु होय.


श्रीगुरुभ्यो नमः
शङ्कारूपेण मच्चित्तं पङ्कीकृतमभूद्यया ।
किङ्करी यस्य सा माया शङ्काराचार्यमाश्रये ॥
प्रह्लादवरदो देवो यो नृसिंहः परो हरिः ।
नृसिंहोपासकं नित्यं तं नृसिंहगुरुं भजे ॥
श्रीसच्चिदानन्दशिवाभिनव्यनृसिंहभारत्यभिधान् यतीन्द्रान् ।
विद्यानिधीन् मन्त्रनिधीन् सदात्मनिष्ठान् भजे मानवशम्भुरूपान् ॥
सदात्मध्याननिरतं विषयेभ्यः पराङ्मुखम् ।
नौमि शास्त्रेषु निष्णातं चन्द्रशेखरभारतीम् ॥
विवेकिनं महाप्रज्ञं धैर्यौदार्यक्षमानिधिम् ।
सदाभिनवपूर्वं तं विद्यातीर्थगुरुं भजे ॥
अज्ञानां जाह्नवीतीर्थं विद्यातीर्थं विवेकिनाम् ।
सर्वेषां सुखदं तीर्थं भारतीतीर्थमाश्रये ॥
पञ्चाशल्लिपिभिर्विभक्तमुखदोः पन्मध्यवक्षस्थलां
भास्वन्मौलिनिबद्धचन्द्रशकलामापीनतुङ्गस्तनीम् ।
मुद्रामक्षगुणं सुधाढ्यकलशं विद्याञ्च हस्ताम्बुजैः
बिभ्राणां विशदप्रभां त्रिनयनां वाग्देवतामाश्रये ॥
श्रीमत्परमहंस-परिव्राजकाचार्यवर्य-पदवाक्यप्रमाणपारावारपारीण-यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाध्यष्टाङ्गयोगानुष्ठाननिष्ठ-तपश्चक्रवर्ती-अनाद्यविच्छिन्नश्रीशङ्कराचार्यगुरुपरंपराप्राप्त-षड्‍दर्शनस्थापनाचार्य-व्याख्यानसिंहासनाधीश्वर-सकलनिगमागमसारहृदय-सांख्यत्रयप्रतिपादक-वैदिकमार्गप्रवर्तक-सर्वतन्त्रस्वतन्त्र-आदिराजधानी-विद्यानगरमहाराजधानी-कर्णाटकसिंहासनप्रतिष्ठापनाचार्य-श्रीमद्राजाधिराजगुरु-भूमण्डलाचार्य-ऋष्यशृङ्गपुरवराधीश्वर-तुङ्गभद्रातीरवासी-श्रीमद्विद्याशङ्करपादपद्माराधक-श्रीमज्जगद्गुरु-श्रीमदभिनवविद्यातीर्थमहास्वामिगुरुकरकमलसञ्जात-श्रीमज्जगद्गुरु-श्रीभारतीतीर्थमहास्वामिनां चरणारविन्दयोः साष्टाङ्गप्रणामान् समर्पयामः ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP