संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|
ललित अलंकार:

रसगंगाधरः - ललित अलंकार:

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथ ललितम्‍-

प्रकृतधर्मिणि प्रकृतव्यवहारानुल्लेखेन निरूप्यमाणोऽप्रकृत-व्यवहारसंबन्धो ललितालंकार: ॥ ’
‘ आददान: परद्रव्यं विष भक्षयसि धुवम्‍ ’ इत्यादिनिदर्शनावारणाय तृतीयान्तम्‍ । अप्रस्तुतप्रशंसावारणाय प्रकृतधर्मिणीति । यथा-
‘ क वा राम: कामप्रतिभटललाटंतपबल-स्तव क्कामी वीरा रणशिरसि धीरा मखभुजाम्‍ । दिधक्षोस्त्रैलोक्यं प्रलयशिखिन: पद्ममथन-प्रगल्भै: प्रालेयै: प्रशममसि कर्तुं व्यवसित: ॥ ’
अत्र प्रकृते धर्मिणि रावणे परदत्तपुरोडाशादिकमश्रतां देवानामग्रे धीरै: कुम्भकर्णादिभिर्वीरैर्भगवतो रामस्य पराभवमिच्छन्नित्येवं कण्ठरवेण तादृ-शेच्छारूपं प्रकृतव्यवहारं विषयमनुक्त्वैव तादृशप्रालेयकरणकतादृशाग्नि-प्रशमनव्यवसायरूपोऽप्रकृतव्यवहारो विषय्युपात्त: । विषयोपादाने तु निदर्शनैव । यथा वा-
‘ नान्यास्ति किं भूमितले सुरूपा सीतैव वा किं भवतोऽनुरूपा । आकर्षता चन्दनशाखिशाखाम प्रबोधितोऽयं भवता फणीन्द्र: ॥ ’
अत्रापि राघवसंबन्धिनायिकाहरणप्रयुक्तं तदीयक्रोधोद्वोधमनुक्त्वैव चन्दनसंबन्धिशाखाकर्षणप्रयुक्तं फणीन्द्रप्रबोधनमुपन्यस्तम्‍ । न चात्र भेदेऽप्यभेद इत्यतिशयोक्त्या गतार्थतेति वाच्यम्‍ । तत्र हि पदार्थेन पदार्थस्यैवाभेदाध्यवसानं ‘ कनकलतायां विराजते चन्द्र: ’ इत्यादौ दृष्टम्‍ , न तु व्यवहारेण व्यवहारस्येत्यविषय एवायमतिशयोक्ते: । नापि सादृश्य-मूलयाप्रस्तुतप्रशंसया । धर्म्यंशेऽप्रस्तुतत्वविरहात्‍ । नापि निदर्शनया ।
एकधर्मिगतव्यवहारद्वयोपादान एव तस्या इष्टे: । अत एव ‘ उपात्ततो: ’ इति तल्लक्षणे । विशेषणभुक्तम्‍ । प्रकृते च प्रकृतव्यवहारस्यानुपात्तत्वाद-लंकारान्तरमेव । एवं च
‘क सूर्यप्रभवो वंश: क्क चाल्पविषया मति: । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्‍ ॥ ’
इत्यत्र काव्यप्रकाशकारो यन्निदर्शनामुदाहार्षीत्तदसंगतमेव । ललितस्याव-श्याभ्युपगम्यत्वान्निदर्शनाया अत्राप्राप्तेश्च । तदित्थं ललितस्यालंकारान्त-रत्वमुरीकुर्वतामाशय: ।
अन्ये तु “ ललितं नालंकारान्तरम्‍ , निदर्शनयैव गतार्थत्वात्‍ । नन्वेक-धर्मिगतप्रस्तुताप्रस्तुतव्यवहारद्वयोपादानजीविता निदर्शना कथमप्रस्तु-तव्यवहारमात्रोपादाने पदमाधत्तामिति चेत्‍, श्रूयतामायुष्मता । इह तावदलंकारा: प्रायश: श्रौता आर्थाश्च संभवन्ति । तत्र श्रौतेभ्य आर्था न पृथगलंकारत्वेन गण्यन्ते । किं तु पृथग्भेदत्वेन, तदलंकारसामान्य-लक्षणेन क्रोडीकरणात्‍ । इदं पुनर्वाक्यार्थनिदर्शनास्वरूपम्‍-व्यवहार-द्वयवद्धर्म्यभेदप्रतिपादनाक्षिप्तो व्यवहारद्वयाभेद: । तत्र व्यवहारद्वयवद्धर्म्य-भेदस्य प्रतिपादनं श्रौतमेवापेक्षितमिति न नियम: । किं तु प्रतिपादन-
मात्रम्‍ । तेन ‘ परद्रव्यं हरन्मर्त्यो गिलति क्ष्वेडसंचयम्‍ ’ इत्यत्र व्यवहार-द्वयवद्धर्मिणोरभेदस्य श्रुत्या प्रतिपादन इव ‘ धिक्परखं तथाप्येष गिलति क्ष्वेडसंचयम्‍ ’ इत्यत्राऽऽर्थप्रकृतव्यवहारवद्धर्मिश्रौताप्रकृतव्यवहारवद्धर्मि-णोरार्थाभेदस्य प्रतिपादनेऽपि वाक्यार्थनिदर्शनात्वमक्षतम्‍ । एकत्र श्रोती-त्वमपरत्रार्थीत्वमिति तु विशेषो न वार्यते । पदार्थनिदर्शनास्वरूपं तूपमा-नोपमेयधर्ययोरभेदाध्यवसायमूल उपमेय उपमानधर्मसंबन्ध इति पृथ-गेव । एतदुभयान्यतरत्वं च प्राचीनरीत्या सामान्यलक्षणम्‍ । यदि तु ललितं पृथगलंकार: स्यात्‍ लुप्तोपमादिरप्युपमादे: पृथक्स्यात्‍, त्वदुक्तयुक्ते-
स्तुल्यत्वात्‍ । नन्वतिशयोक्तिरेवं सति रूपक एव विलियते । विषय-विषयिणोर्द्वयोरप्युपादाने श्रौतं रूपकम्‍, विषयिमात्रोपादाने त्वार्थ-मित्यस्यापि सुवचत्वात्‍ । सत्यम्‍ । यत्र ह्मलंकारशररिमुभयत्राप्यविल-क्षणं तत्रैकालंकारव्यपदेशो युक्त: । यथा सादृश्यं निष्पाद्यमानमुपमा-शरीरं लुप्तोपमादिष्वविलक्षणमेवेति तत्राप्युपमयैव व्यपदेशो न्याय्य:, नालंकारान्तरेण । लुप्तत्वपूर्णत्वादिस्तु न तच्छरीरनिविष्ट इति स्वयं व्याव-र्तमानोऽपि नोपमात्वव्यावर्तक:, तथान्यत्रापीति स्थिति: । एवं च विषय-तावच्छेदकरूपेण भाते विषये विषयितावच्छेदकावच्छिन्नाभेदस्य रूपक-
शरीरस्य विषयितावच्छेदकरूपेणाऽऽभासमानविषयात्मकादतिशयोक्ति-स्वरूपाद्विलक्षणत्वेन द्वयोरेकालंकारत्वं न युक्तम्‍ । निदर्शनाललितयोस्तु स्वरूपावैलक्षण्यं प्रदर्शितमित्येकालंकारत्वमेव ” इत्याहु: ।
‘ आहार्यनिश्चयविषयीभूतो विषये विषय्यभेदो रूपकस्वरूपमुच्यते । न निवेश्यते च विषयतावच्छेदकादि, गौरवात्‍ । : एवं चातिशयोक्तेर्निगी-
र्याध्यवसानरूपाया रूपकभेदत्वमस्तु नाम । का नो हानि: । एवमपह्लुते-रपि । विषयतावच्छेदकनिह्लवानिह्लवनिगरणानि रूपकस्यैवावान्तरविशेषा: ’
इति तु नव्या: । एतन्मतरीत्या तु ललितस्य निदर्शनात:पृथगलंकारत्बं मनोरथललितमेवेति । एवं च ‘ तितीर्षुर्दुस्तरं मोहादुडुपेनासि सागरम्‍ ’ इत्यत्र निदर्शना साधु संगच्छते । क्क सूर्येत्यादिना स्वमति-सूर्यप्रभववंश-योरत्यन्ताननुरूपत्वकथनोत्तरमुडुपकरणकसागरतरणेच्छाया अप्रकृताया: कथनेन तादृशमतिकरणकवर्णनेच्छाया: प्रकृताया:प्रतिपत्ते: ।
यत्तु --“-‘ अनायि देश: कतमस्त्वयाद्य वसन्तमुक्तस्य दशां वनस्य ’ इति पद्ये कतमो देशस्त्वया परित्यक्त इति प्रस्तुतार्थमनुपन्यस्य वसन्त-मुक्तस्य वनस्य दशामनायीति तत्प्रतिबिम्बभूतार्थमात्रोपन्यासाल्ललितालं-कार: ”
इति कुवलयानन्दकार आह । तदत्यन्तमसंगतम्‍ । अत्र कथ-मन्यस्य दशामन्यो नेतुं शक्य इति वसन्तमुक्तवनदशां नि:श्रीकत्वल-क्षणामनायीति हि पर्यवसन्नोऽर्थ: । तत्र नि:श्रीकत्वरूपकार्यद्वारा कारणस्य राजकर्तृकत्यागकर्मत्वस्याभिधानं पर्यायोक्तेर्विषय: । दशयोरेकत्वा-ध्यवसानं तु पदार्थनिदर्शनाया अतिशयोक्तेर्वेत्यन्यदेतत्‍ । एवं च पदार्थ-निदर्शनोपबृंहितस्य पर्यायोक्तस्यैवात्र विषय:, न ललितस्य । किं च त्वदुक्तं ललितालंकारलक्षणमपि नात्र संभवति । तच्च “-‘ प्रस्तुते वर्ण्य-वाक्यार्थप्रतिबिम्बस्य वर्णनम्‍ ’ प्रस्तुते धर्मिणि वर्णनीयं वाक्यार्थमवर्ण-यित्वा कस्यचिदप्रस्तुतस्य वाक्यार्थस्य वर्णनं ललितम्‍ ”
इत्यादिना ग्रन्थेन भवता विवेचितम्‍ । इह च प्रस्तुते धर्मिणि देशविशेषे राजकर्तृकत्याग-कर्मत्वरूपस्य वर्ण्यस्यार्थस्यावर्णनेऽप्यप्रस्तुतस्य वसन्तकर्तृकत्यागकर्मत्वस्या-प्यवर्णनात्कथं संगच्छताम्‍ । यदि पुन: ‘ अकारि देश: कतमस्त्वयाद्य निरस्तचन्द्र: कठिनाशयेन ’ इति पद्यं स्यात्तदा स्यादपि तव मनोरथ: । न च तादृशवनदशाया अप्रस्तुताया देशविशेषे वर्णनमस्त्येवेति वाच्यम्‍ ।
दशाशब्देन तद्दशासदृशस्य दशान्तरस्य लक्ष्यत्वेन तस्याप्रस्तुतत्वायोगात्‍ । अन्यथा पदार्थनिदर्शनोच्छेदापत्ते: । एवम्‍
‘ रामो विजयते यस्य क्षणात्सामर्षवीक्षणात्‍ । दावाग्निदग्धकान्तारलीलां लड्कापुरी दधौ ॥ ’
इत्यादौ ललितस्यालंकारान्तरतामभ्युपगच्चतामपि मते न तस्य विषय:, किं तु निदर्शनाया: । अत एव
‘ उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्रि याति चास्तम्‍ । वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम्‍ ॥ ’
इति प्राचां निदर्शनोदाहरणमपि संगच्छते । तव तु रशिमरज्जुनियन्त्रित-पार्श्वद्वयसंलग्नसूर्यचन्द्रोऽयं गिरिरित्येवं प्रकृतधर्म्यारूढतया प्रकृतार्थानु-पादानाल्ललितमेव स्यात्‍ । प्रकृतव्यवहारस्य लेशतोऽप्यकीर्तने केवलं प्रक-रणादिना गम्यत्वे ललितम्‍, अन्यथा निदर्शनेति चेत्‍ ‘ क्क सूर्यप्रभव: । इत्यस्मात्कथं निदर्शना तर्हि निर्वासितेति सर्वमसमञ्जसमेव ।

इति रसगंगाधरे ललितालंकार प्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP