संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|
प्रत्यनीक अलंकार:

रसगंगाधरः - प्रत्यनीक अलंकार:

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथ प्रत्यनीकम्‍-

प्रतिपक्षसंबन्धिनस्तिरस्कृति: प्रत्यनीकम्‍ ॥
अनीकेन सदृशं प्रत्यनीकम्‍ । सादृश्यस्य यथार्थत्वेनैव संग्रहे पुन: सादृश्यग्रहणाद्‍गुणीभूते‍ऽपि सादूश्येऽव्ययीभाव: । लोके प्रतिपक्षस्य तिर-स्कारायानीकं प्रयुज्यते । तदशक्तौ प्रतिपक्षसंबन्धिन: कस्यचित्तिरस्कार: क्तियते । स चानीकसदृशतया प्रयुज्यमानत्वात्प्रत्यनीकमुच्यते । अत्र च
प्रतिपक्षगतं बलवत्त्वम्‍ । आत्मगतं दुरर्बलत्वं च गम्यते । संबन्धी च तदुपजीव्योपजीवकमित्रादिभेदादनेकविध: । तथा-
‘ रे रे मनो मम मनोभवशासनस्य पादाम्बुजद्वयमनारतमामनन्तम्‍ । किं मां निपातयसि संसृतिगर्तमध्ये नैतावता तव गमिष्यति पुत्रशोक: ॥’
‘ जितमौक्तिकसंपदां रदानां सहवासेन सहवासेन परां मुदं ददानाम्‍ । विरसादधरीकरोति नासामधुना साहसशालि मैक्तिकं ते ॥ ’
पूर्वत्रोपजीव्यस्य, इह तूपजीवकस्य तिरस्काराद्वैरस्यार्थत्व-शाब्दत्वाभ्यां च वैलक्षण्यम्‍ । एवमन्यदप्यूह्यम्‍ ।
अत्र विचार्यते-हेतूत्प्रेक्षयैव गतार्थत्वान्नेदमलंकारान्तरं भवितुमर्हति । तत्र द्वितीयोदाहरणे ताबद्धेत्वंश: शाब्द: उत्प्रेक्षांशमात्रमार्थम्‍ । प्रथमो-
दाहरणे तु द्वयमप्यार्थम्‍ । पुत्रमारकसेवकत्वेन कारणेन वैरस्य तस्य स्वात्म-कर्मकगर्तमध्यनिपातनेन कार्येण हेतुतायाश्च स्फुटं प्रतीते: । अस्मिन्नलं-कारे हेतुत्वं निश्चीयमानम्‍, हेतूप्रेक्षायां तु संभाव्यमानमित्यस्ति विशेष इति चेत्‍, प्रतीयमानहेतूत्प्रेक्षाया अनुत्प्रेक्षात्वापत्ते: । वाचकस्येवादेरभा-वाद्धेतुत्वस्य निश्चीयमानतायास्तत्रापि वक्तुं शक्यत्वात्‍
‘ यस्य किंचिदपकर्तुमक्षम: कायनिग्रहगृहीतविग्रह: । कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते ॥ ’
इत्यलंकारसर्वस्वकृतोदाह्लते प्राचीनपद्येऽपि भगवद्वैरानुबन्धादिव भगवद्‍-वक्त्रसदृशमिन्दुं राहुर्बाधत इति प्रतीतेरुत्प्रेक्षैव गम्यमाना ।
‘ मम रूपकीर्तिमहरद्भुवि यस्तदनुप्रविष्टह्लदयेयमिति । त्वयि मत्सरादिव निरस्तदय: सुतरां क्षिणोति खलु तां मदन: ॥ ’
इति कुवलयानन्दकारेणोदाह्लते तु पद्ये हेत्वंश उत्प्रेक्षांशश्चेत्युभयमपि शाब्दमिति कथंकारमस्यालंकारस्योदाहरणतां नीतमिदमायुष्मतेति न विद्म: । प्रतिपक्षगतबलवत्त्व-स्वात्मगतदुर्बलत्वयो: प्रतीतेर्हेतूत्प्रेक्षान्त-रादस्य वैलक्षण्यम्‍ । नैतावता हेतूत्प्रेक्षाया बहिर्भवितुमिदमीष्टे, तदविना-
भावित्वात्‍ । किं तु तदवान्रतविशेषीभवितुम्‍ । नहि पृथिव्यवान्तरभेदा-द्धटात्पटो विलक्षण इति पृथिव्या बहिर्भवतीत्यपि वदन्ति ।

इति रसगंगाधरे प्रत्यनीकप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP