संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|
विकल्प अलंकार:

रसगंगाधरः - विकल्प अलंकार:

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथ विकल्प:-

विरुद्धयो: पाक्षिकी प्राप्तिर्विकल्प: ॥
एकस्मिन्धर्मिणी स्वस्वप्रापकप्रमाणप्राप्तयोरत एव तुल्यबलयोर्विरुद्ध-योर्विरुद्धत्वादेव युगपत्प्राप्तेरसंभवात्पाक्षिक्येव प्राप्ति: पर्यवसन्ना । अयं च सभुच्चयस्य प्रतिपक्षभूतो व्यतिरेक इवोपमाया: । अत्र च विकल्प्य-
मानयोरौपम्यमलंकारताबीजम्‍, तदादायैव चमत्कारस्योल्लासात्‍ । अन्यथा तु विकल्पतामात्रम्‍ । यथा ‘ जीवनं मरणं वास्तु नैव धर्मं त्यजाम्यहम्‍ ’
इत्यादौ । अत्र जीवनमरणयोर्नौपम्यस्य प्रतीति: उदाहरणम्‍-
‘ प्राणानर्पय सीतां वा गृध्रांस्तर्पय वा द्विजान्‍ । यमं भजस्व रामं वा यथेच्छसि तथाचर ॥ ’
अत्रार्पणतर्पणभजनेषु मानरक्षणप्रमाणेन यथाक्तमं कर्मतया प्राणगृध्र-यमानाम्‍, जीवनरक्षणप्रमाणेन सीताद्विजरामाणां प्राप्तानां यौगपद्यासं-
भवात्पर्यायेण प्राप्ति: । कर्मणो: क्तियाफलेनैव समानधर्मेणौपभ्यम्‍ । नन्बत्र यथार्पि-तर्प्यादिधात्वर्थफलरूपधर्मैक्यात्कर्मणोरौपभ्यं गम्यते, तथा ‘ जीवनं मरणं वा ’ इत्यादौ सत्तारूपधर्मैक्याज्जीवनमरणयो:कर्त्रोरपि तद्नन्तुं युजयत इति चेत्‍, युज्यते, न तु गम्यते । अथ तत्कुतो हेतो: ? कवि-
तात्पर्यविरहादिति गृहाण । नह्यत्र मरणं जीवनं च समानमिति कवेरभि-प्रेतम्‍ । किं तु ‘ विषं भुड्‍क्ष्व, मा चास्य गृहे भुड्‍था: ’ इतिवत्‍ धर्मोद्धेतो-र्मरणमपि ज्याय;, न तु धर्मत्याग इति निषिद्धगतद्वेषाधिक्यम्‍ । तदर्थं च मरणस्योपात्तत्वादविवक्षिताधिकरणकतया औपम्यस्यानिष्पत्तिरेव ।
क्कचिल्लुप्तं समानधर्ममादायाप्यौपम्यस्य गम्यत्वेऽयमलंकार: । यथा भगवद्नीतासु ‘ हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्‍ । ’ अत्र
महीभोग-स्वर्गप्राप्त्योरुत्तमत्वेनौपम्यं विवक्षितम्‍ । तथा च धात्वर्थयोरयं विकल्प इत्येके । आख्यातार्थयोरित्यपरे । सर्वथैव न महीस्वर्गयोरिति स्थितम्‍ । तयो: कारकत्वेनैव क्रियान्वयं विना विकल्पासंगते: । न च धात्वर्थयोरेकस्य कर्तृरूपसाधारणधर्मस्योक्तत्वात्कथं लुप्ततेति वाच्यम्‍ ।
कर्तृरूपसाधारणधर्ममादायौपम्यस्यात्र सुन्दरस्यानिष्पत्ते: । अन्यथा ‘ हतो वा नरकं गन्ता जित्वा वा भोक्ष्यसे महीम्‍ ’ इत्यत्राप्यौपम्यप्रत्ययापत्ते: ।
यत्तु-
“-‘ भक्तिप्रह्लविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीतेहितप्राप्तये । लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरे: ॥ ’
अत्र विकल्प: । उत्तमत्वाच्च तुल्यप्रमाणश्लिष्टत्वम्‍ ” इत्यलंकारसर्वस्व-कृतोक्तम्‍ । तच्चिन्त्यम्‍ । भवार्तिशमने तनु-नेत्रद्वन्द्वयोर्द्वयोरपि युग-
पत्कर्तृत्वे विरोधाभावाद्विकल्पानुत्थानात्‍ । ‘ विरोधे विकल्प: ’ इति हि तेनैवोक्तम्‍ । न च तनुमध्ये नेत्रयो:प्रविष्टत्वात्पृथगभिधानानौचित्येऽपि यत्पृथगभिधानं तद्वक्तुस्तनु-नेत्रद्वन्द्वयोर्विरोधमभिप्रेतं गभयतीति वाच्यम्‍ । वास्तवस्यैव विरोधस्य विकल्पोत्थापकत्वेन वैवक्षिकस्याप्रयोजकत्वात्‍ । विकल्पस्यात्रासुन्दरत्वाच्च । वस्तुतस्तु ‘ सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव’ इत्यादाविवात्रापि श्लेषमूलोपमैवालंकार: । तनुर्वेति
तनुरिवेत्यर्थ: । ‘ वा रयाद्विकल्पोपमयो: ’ इति वाशब्दस्येवार्थकत्वाभिधा-नात्‍ । न च लिड्रवचनभेद उपमायां दोष इति वाच्यम्‍ । साधारणधर्म स्योपमानसामानाधिकरण्ये उपमेयसामानाधिकरण्ये च यत्र वैरूप्यं तत्रैव लिड्रवचनभेदस्य दोषताया अभ्युपगते: । यथा-‘ हंसीव धवलश्चन्द्र:सरांसीवामलं नभ: । ’ अत्र हंसी धवला, चन्द्रो धवल:, सरांस्यमलनि, नभो ह्ममलमिति साधारणधर्मस्योपमाने उपमेये च द्वैविध्येनैव प्रतीते-रुपमाया: सम्यगनिष्पत्ते: । नन्वेवं सति ‘ सरांसीव नभ: ’ इत्यादौ
लुप्तोपमायां कथं वचनभेदो दोष इति चेत्‍, तत्रापि प्रतीयमानसाधारण-धर्मस्य वैरूप्यादेवेत्यभ्युपगमात्‍ । न च प्रतीयमानस्य धर्मस्य स्वशब्दा-नालिड्रिततया सुतरां लिड्रानालिड्रनेन नास्ति वैरूप्यमिति शड्कयम्‍ । शब्दालिड्रितस्यैवार्थस्य प्रतीतेरिष्टे: । यदाहु:-‘ न सोऽस्ति प्रत्ययो लोके य: शब्दानुगमादृते ’ इति । यद्वा श्रुतार्थापत्तावभ्युपगम्यमानायां शब्द
एव कल्प्यते, अर्थस्तु तेनाभिधीयत इत्यस्ति वैरूप्यम्‍ । एवं स्थिते राजते भासते इत्यादितिडन्तप्रतिपाद्ये साधारणधर्मे यथा लिड्रवचनभेदो न
दोषस्तथात्रापीति । अत एव ‘  यस्मिन्नतिसरसो जनो जनपदाश्च ’ इति तुल्ययोगितापि संगच्छते । अन्यथा उपमागर्भत्वात्तस्या उपमाया दुष्टत्वे दुष्टतापत्ते: । श्लिष्टे धर्मलिड्रसंख्याभेदादि नैव दूषणमिति प्रतिप्रसवा-च्चेति दिक्‍ ।

इति रसगंगाधरे विकल्पप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP