संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|
शृड्खलामूला अलंकारा:

रसगंगाधरः - शृड्खलामूला अलंकारा:

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथ शृड्खलामूला अलंकारा:-

तत्र,

पड्‍क्तिरूपेण निबद्धानामर्थानां पूर्वपूर्वस्योत्तरोत्तरस्मिन्‍, उत्तरो-त्तरस्य वा पूर्वपूर्वस्मिन्संसृष्टत्वं श्रृड्खला ॥

तच्च कार्यकारणता-विशेषणविशेष्यतादिनानारूपम्‍ । इयं च न स्वतन्त्रोऽलंकार:, वक्ष्यमाणप्रभेदैर्गतार्थत्वात्‍ । नह्यस्यास्तैर्विना विविक्तो विषयोऽस्ति । यथा हि रूपकादिष्वनुप्राणकतया स्थितोऽप्यभेदांश: समान-धर्मांशो वा न पृथगलंकार: एवं प्रकृतेऽपीत्याहु: । तदपरे न क्षमन्ते । साव-यवादिभेदै रूपकस्य, पूर्णालुप्तादिभिरुपमायाश्च गतार्थत्वात्स्वतन्त्रालंकारता न स्यात्‍ । नहि विशेषनिर्मुक्तं सामान्यमस्ति येन विविक्तो विषय: स्यात्‍ । तस्माच्छृड्‍खलाया एव कारणमालादयो भेदा इति । मतयोरनयोस्तत्त्वमु-परिष्टाद्विवेचयिष्याम: ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP