विषमालंकाराः - लक्षण ३

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अत्र कयाचित्प्रौढनायिकया सपत्न्यां प्रियेणाज्ञातयौवनात्वेनैव विदितायां तदनुरागप्रतिबन्धार्थं प्रियस्य पुरस्तदीयदुर्गुणानावेदयन्त्या चिकीर्षितोऽर्थो न संपादित:, स्वस्मिन्ननुरागक्षतिश्च संपादितेति यद्यपि सुखसाधननिवृत्तेर्दु:खसाधनरूपत्वान्न पृथग्गणनोचिता, तथापि दु:ख-
साधननिवृत्तौ सुखस्येव सुखसाधननिवृत्तौ प्रतिनियतकारणं जन्यत्वेन दु:ख-स्यानैयत्यात्पृथगुपादानम्‍ । एवमष्टावन्येऽप्युभयभेदा ऊह्या: । केवलेष्टा-
प्राप्तिर्यथा-
‘ प्रभातसमयप्रभां प्रणयिनि ह्लुवाना रसा-दभुष्य नयनाम्बुजं सपदि पाणिनामीलयत्‍ । अनेन खलु पद्मिनीपरिमललिपाटच्चरै: समीरशिशुकैश्चिरादनुमितो दिनेशोदय: ॥ ’
अत्र प्रियतमकर्तृकप्रभातविषयकज्ञानाभाव: कामिन्या: सुखसाधन-तयेष्ट: । स च तया साध्यमानोऽपि न सिद्ध इतीष्टाप्राप्तिरेव । यद्वा तादृश-ज्ञानं तस्या दु:खसाधनम्‍, तन्निवृत्तिरूपं चेष्टं साध्यमानमपि न तथेति
सैव । एवं च द्विप्रकारापीष्टाप्राप्तिरेवात्र संभवति । प्रकारान्तरं चास्या अप्यूह्यम्‍ । केवलनिष्टप्राप्तिर्यथा-
‘ मुकुलितनयनं करिणो गण्डं कण्डूयतो विषद्रुतटे । उदभूतकाण्डदहनज्वालाजालाकुलो देह: ॥ ’
अत्र नेष्टाप्राप्ति: । मुकुलितनयनमित्यनेन कण्डूयनजन्यसुखस्य प्राप्ते: । किं त्वनिष्टप्राप्तिरेव । अस्या अपि भेदद्वयं यथायथमूह्यम्‍ । ग्रन्थविस्तर-भयान्नेहोदाह्लियते । एते चेष्टसाधनत्वेन निश्चितात्कारणादनिष्टार्योत्पत्तीनां सर्वेऽपि प्रभेदा वक्ष्यमाणविषादनालंकारसंकीर्णा एवेति तत्प्रकरणे निरूपयिष्याम: ।
यत्तु-‘ अनिष्टस्याप्यवाप्तिश्च तदिष्टार्थसमुद्यमात्‍ ’ इति विषभभेद-
लक्षणं निर्माय ‘ अपिशब्दसंगृहीततया इष्टानवाप्तिश्चेति प्रत्येकमपि विषम-पदेनान्वय: ’ इत्युक्तं कुवलयानन्दकृता , तन्न । अव्युत्पत्ते: । अस्मिन्ग्रामे देवदत्तस्य द्रव्यस्यापि लाभोऽस्तीत्यादौ द्रव्यशब्दोत्तरापिशब्दसभुच्चितस्य विद्यादेर्द्रव्यान्वयिन्येवान्वयादृरव्यस्य लाभो विद्यायाश्च लाभ इति धीरिति निर्विवादम्‍ । प्रकृते त्वनिष्टस्याप्नोतिनान्वय: , इष्टानवाप्तेश्च तच्छब्दपरा-मृष्टेन विषमेणेति वैषम्यात्‍ । प्रत्युत लक्षणवाक्येऽपिशब्दोऽनिष्टां धियमु-त्पादयति । अनिष्टस्यावास्प्तिरिष्टस्य चेति प्रतीते: । चकारसमुच्चितया इष्टानवाप्त्या अनिष्टावाप्तेरेकवारं मिलितायास्तत्पदपरामृष्टेन विषमेणान्वया-
द्वाक्यावृत्त्या वारान्तरे च प्रत्येकमन्वयाद्भेदत्रयसंग्रह इति तु स्यादपि । न त्वपिशब्दविकत्थनम्‍ । यदपि तेनैवोदाह्लतम्‍ -‘ भक्ष्याशयाऽहिमञ्जूषां दष्ट्वऽऽखुस्तेन भक्षित: ’ इति । अत्र क्त्वाप्रकृतिक्रियाकर्तृकर्तृकोत्तरकाल-बर्तिक्रियान्तरस्याप्रयुक्तत्वादगभ्यमानत्वाच्च प्रविष्ट इति पदाकाड्क्षितया न्यूनपदत्वम्‍ । यदपि केवलेष्टानवाप्तौ तेनैवोदाजह्ले-
‘ खिन्नोऽसि मुञ्च शैलं बिभृमो वयमिति वदत्सु शिथिलभुज: । भरभुग्नविततबाहुषु गोपेषु हसन्हरिर्जयति ॥ ’
इति । तदपि न समणीयम्‍ । अत्र भरभुग्नविततेत्यादिना बाहुगतास्थिसंधि-भड्ररूपानिष्टप्राप्ते: साक्षादुपात्तत्वात्सर्वाड्रचूर्णीभाव-गर्वापहाररूपायाश्व स्फुटं गम्यमानत्वात्कथमिष्टाप्राप्तिमात्रमित्युच्यते । एतेन ‘ शैलपतनरूपानिष्टा-वाप्तिस्तु भगवत्कराम्बुजस्पर्शमहिम्ना न ज्ञाता ’ इति यदुक्तम्‍ , तदप्यसार-मेव । अनिष्टानामुक्तवात्‍ ।
एवमुत्पत्तिलक्षणसंसर्गस्याननुरूपत्वं निरूपितम्‍ । संयोगादिलक्षण-संसर्गस्याननुरूपत्वं यथा-
‘ वनान्त: खेलन्ती शशकशिशुमालोक्य चकिता भुजप्रान्तं भर्तु: श्रयति भयहर्तु: सपदि या । अहो सेयं सीता शिव शिव परीता श्रुतिचल-त्करोटीकोटीभिर्वसति खलु रक्षोयुवतिभि: ॥ ’
अत्र सतीशिखामणेर्भगवत्या राघवधर्मपत्न्या:परमप्रभावयुक्तत्वा-द्राक्षसीभिरनाश्यत्वेऽपि रक्ष: कर्तृकनाशस्वरूपयोग्यतावच्छेदकमनुष्यत्व-जातियोगेन स्वरूपस्य रक्षोदर्शनेन सौन्दर्यसौकुमार्यादीनां गुणानां च नाश्यत्वेन विरुद्धत्वात्समानाधिकरणसंयोगरूप: संसर्गोऽननुरूप: । ननु-
‘ क्क शुक्तय: क्क वा मुक्ता: क्क पड्क: क्क च पड्कजम्‍ । क्क मृगा: क्क च कस्तूरी धिग्विधातुर्विदग्धताम्‍ ॥ ’
इत्यादौ वस्तुकथनमात्रे विषमालंकारप्रसड्र: । न चेष्टापत्ति: । वस्तुवृत्तस्य लोकसिद्धत्वेनालंकारत्वायोगात्‍ । यतो बहिरसन्त: कविप्रतिभामात्रकल्पिता
अर्था: काव्येऽलंकारपदास्पदम्‍ । नच ‘ यथा पद्मं तया मुखम्‍ ’ इत्यादौ सादृश्यस्य लोकसिद्धत्वात्कविप्रत्तिभानुत्थापितत्वेऽपि कथमलंकारत्वमिति वाच्यम्‍ । सादृश्यरूपे सादृश्योत्थापके वा अभिन्नधर्मेऽभेदांशस्य कविप्र-तिभामात्राधीनत्वात्‍ । नहि पद्ममुखयो: शोभारूपो धर्मो जात्यादिवद्वस्तु एकोऽस्ति । यो हि जात्यादिरूपो वस्तुत एकस्तदुत्थापितं सादृश्यमलंकार-बहिर्भूतमेव । यथा-‘ पद्ममिवास्या मुखं द्रव्यम्‍ ’ इत्यादौ । एवं च ‘ वनान्त: खेलन्ती ’ इति पद्यप्रतिपाद्याया: सीता-राक्षसवधूसंसर्गाननुरूपताया लैकिकीत्वेन कविप्रतिभानपेक्षत्वान्नालंकारत्वम्‍ । एतेन-
‘ अरण्यानी क्केयं धृतकनकसूत्र: क्क स मृग: क्क मुक्ताहारोऽयं क्क च स पतग: क्केयमबला ।
क्क तत्कन्यारत्नं ललितमहिभर्तु: क्क च वयं स्वमाकूतं धाता कमपि । निभृतं पल्लवयति ॥ ’
इत्यलंकारसर्वस्वकृतोदाह्लतमपि प्रत्युक्तम्‍ । इयमेव च पद्यान्तरे‍ऽपि क्कवि प्रतिभानुत्थापितार्थके सरणिरिति । सत्यम्‍ । एवं तर्हि
‘ क सा कुसुमसाराड्री सीता चन्द्रकलोपमा । क रक्ष: खदिराड्रारमध्यसंवासवैशसम्‍ ॥ ’
इति पद्यमुदाहरणं गृहाण । अत्र हि केवलसीताया: केवलराक्षसीनां च संसर्गस्याननुरूपतायां सत्यामपि न सा कवेर्विवक्षिता । किं तु या कुसुम-सारखदिराड्रारसंसर्गस्याननुरूपता सेति स्फुटमेवास्यामलैकिकत्वात्कवि-प्रतिभापेक्षित्वम्‍ ।

इति रसगंगाधरे विषमालंकारप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP