विभावना अलंकारः - लक्षण २

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


इति वदन्‍ विमर्शिनीकारोऽपि
प्रत्युक इति । उच्यते-मा स्म भूत्सर्वत्र विभावनायामतिशयोक्ति रनुप्राणिका । आहार्याभेदबुद्धिमात्रमेवानुप्राणकम्‍ । तच्च क्कचिदतिशयोक्त्या, क्कचिच्च रूपकेणेति न दोष: ।
यत्तु -“ कारणं विना कार्योत्पत्तिरेका । कारणानामसम-ग्रत्वे द्वितीया । सत्यपि । सत्यपि प्रतिबन्धके कार्योत्पत्तिस्तृतीया । अकारणात्का-र्योत्पत्तिश्वतुर्थी । विरुद्धात्कार्यजन्म पञ्चमी । कार्यात्कारणजन्म षष्ठी । क्रमेणोदाहरणानि-
‘ अप्यलाक्षारसासिक्तं रक्तं तन्व्या: पदाम्बुजम्‍ । ’
‘ अस्त्रेरतीक्ष्णकठिनैर्जगज्जयति मन्मथ: । ’
‘ सातपत्रं दहत्याशु प्रतापतपनस्तव । ’
‘ शड्खद्वीणानिनादोऽयभुदेति महदद्भुतम्‍ । ’
‘ शीतांशो: किरणा हन्त दहन्ति सुदृशो दृशौ ।’
‘ यश:पयोधिरभवत्करकल्पतरोस्तव । ’
इति षट्‍प्रकारां विभावनाभुदाजहार कुवलयानन्दकृत्‍ । तत्रेदं वक्तव्यम्‍-
‘ कार्योत्पत्तिस्तृतीया स्यात्सत्यपि प्रतिबन्धके । ’
‘ अकारणात्कार्यजन्म चतुर्थी स्याद्विभावना ॥ ’
इत्यादिभिर्विभावनाप्रकारानालक्षयता विनापि कारणं कार्योत्पत्तिरित्यप्येको विभावनाप्रकार इत्युक्तं भवति । अन्यथा चतुर्थीत्वाद्यसंगते: । एवं च यथा-‘ सादृश्यमुपमा भेदे ’ , ‘ तद्रूपकमभेदो य उपमानोपमेययो: ’
इत्यादिभिर्लक्षितस्योपमा-रूपकादिसामान्यस्य पूर्णादय सावयवादयश्च भेदा उक्तास्तथेह किं तद्विभावनासामान्यलक्षणम्‍ ? यल्लक्षितस्य विभावना-सामान्यस्यामी भवतोक्ता: प्रकारा उपपद्येरन्‍ । कारणं विना कार्योत्पत्ते. स्तु प्रकारान्त: पातित्वात्‍ । अथातिशयोक्त्यादिष्विव तादृशसकलप्रकारा-न्यतमत्वं सामान्यलक्षणमुम्रेयमिति चेत्‍, एवमपि प्रथमप्रकाराहिउतीय-प्रकारस्य वैलक्षण्यं दुरुपपादमेव । कारणाभावेऽपि कार्योत्पत्तिरित्यत्र कारण-
तावच्छेदकसंबन्धेन कारणतावच्छेदकावच्छिन्नप्रतियोगिताकाभावस्य विवक्षितत्वात्‍ । प्रकारान्तरस्वीकारापेक्षया तादृशविवक्षाया एव लघुत्वात्‍ । एवं प्रतिबन्धकमपि कारणाभाव एव । प्रतिबन्धकाभावस्य कारणत्वात्‍ । इति तृतीयोऽपि भेदो न विलक्षण: । चतुर्थेऽपि भेदे कारणाभाव: आर्थ: । ‘ शड्‍खाद्वीणानिनादोऽयम्‍ ’ इत्युक्ते वीणां विनैवेति प्रत्ययादवैलक्षण्यम्‍ । तस्मादाद्येन प्रकारेण प्रकारान्तराणामालीढत्वात्षट्‍प्रकारा इत्यनुपपन्नमेव ।
यदि तु यथाकथंचित्कुवलयानन्दोक्ति: समर्थनीयेत्याग्रहस्तदेत्थं समर्थ्यताम्-तथा हि विनापि कारणं कार्यजन्मेति विभावनाया: सामान्यलक्षणम्‍ । इयं च तावहूएधा-शाब्दी, आर्थी च । शाब्दी त्रिविधा-प्रतिबन्धका-तिरिक्तकारणव्यक्तिप्रतियोगिकाभावोक्तिपूर्विका, सत्यामपि कारणव्यक्तौ यदवीच्छन्नत्ववैकल्यप्रयुक्त: कार्याभावस्तद्वैकल्योक्तिपूर्विका, स च कारण-तावच्छेदकधर्म: क्कचित्कारणतावच्छेदकसंबन्धश्च, प्रतिबन्धकोक्तिपूर्विकाचेति । आर्थ्यपि त्रिविधा-प्रकृतकार्यसमानजातीयकार्यान्तरस्य कारणात्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP