विभावना अलंकारः - लक्षण २

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथातिशयोक्तिर्न सर्वस्यां विभावनायामनुप्राणिका । किं तु क्कचित्‍ ।
‘ निरुपादानसंभारमभित्तावेव तन्वते । जगच्चित्रं नमस्तस्मै कलाश्लाघ्याय शूलिने ॥ ’
इत्यत्र विभावनायामतिशयोक्तेरध्यवसानमूलाया अननुप्राणकत्वादिति । ननु कारणाभावे कार्योत्पत्तिरसंभवन्ती कविना अभिप्रायविशेषेण निबध्यमाना हि विभावना । न चात्रोपादानान्तराभावे जगत उत्पत्ति: परमेश्वरादसंभवन्ती येन विभावना स्यात्‍ । ‘ नासदासीत्‍ ’ , ‘ सदेव सोम्येद-मग्र आसीत्‍ ’ , ‘ आत्मा वा इदमेक एवाग्र आसीत्‍ ’ , ‘ असद्वा इदमग्र आसीत्ततो वै सदजायत ’ इत्यादिश्रुतिभ्य: , ‘ अहमेवासभेवाग्रे नान्यद्यत्‍-सदसत्परम्‍’ इत्यादिस्मृतिभ्यश्च सृष्टिकाले भगवदतिरिक्तवस्तुजातप्रतिषेधा-वगमात्‍ । तस्मादत्र विभावनाया एव संभावना नास्ति क्क पुनरतिशयो-क्त्यनुप्राणितत्वव्यभिचार इति चेत्‍, न । अत्र हि भगवत: सकाशात्‍-
केवलस्य जगत उत्पत्तिर्न कवेरभिप्रेता । येन तस्या उपादानान्तरव्यतिरेकेऽपि भगवत: सकाशात्संभवादसंभवमूला विभावना न स्यात्‍ । किं तु जग-द्रूपस्य चित्रस्य । चित्रस्य च केवलस्योपादानानां मषी-हरितालादीनामा-धारस्य भित्त्यादेश्चाभावे केवलाकाशे जागर्त्येवोत्पत्तेरसंभव: । स च तस्य जगद्रूपतानुसंधानात्तत्कारणतदाश्रयव्यतिरेकमादाय निवर्तत इति ‘ निरुपादानसंभारम्‍ ’ इत्यत्र निष्प्रत्यूहैव विभावनेति भवत्यतिशयोक्त्यनु-प्राणितत्वव्यभिचार: । एतेन ‘ विभावनायां सर्वत्रातिशयोक्तिरनुप्राणिका ’ इति सर्वस्वकारोक्तिरपास्ता । तथा “-‘ निरुपादानसंभारम्‍ ’ इत्यत्र विभावनाया एवाभावात्कुत्र व्यभिचार: ”

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP