विरोधमूलालंकाराः - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथ विरोधमूलालंकारा :---  
एकाधिकरणसंबद्धत्वेन प्रतिपादितयोरर्थयोर्भासमानैकाधिकरणासंबद्धत्वम्, एकाधिकरणासंबद्धत्वभानं वा विरोध: ॥
यद्व :---
एकाधिकरणासंबद्धत्वेन प्रसिद्धयोरेकाधिकरणसंबद्धत्वेन प्रतिपादनं स: ॥
स च प्ररूढोऽप्ररूढश्च  । प्ररोहश्च बाधबुद्धयनभिभूतत्वम् । तद्वैपरीत्य
प्ररोह: । तत्राद्यो दोषस्य विषय:, द्वितीयश्वालंकारस्य । अत एवेमं विरो-धाभासमाचक्षते । आ ईषद्भासत इत्याभास: । विरोधश्चासावाभास-श्चेति । आमुख एव प्रतीयमानो झगिति जाय्यमानाविरोधबुद्धितिरस्कृत इति यावत्‍ । तत्रापि कार्यकारणादिबुद्धयनालीढो विरोधाभासो विरोधा-
प्ररोह: । तत्राद्यो दोषस्य विषय:, द्वितीयश्चालंकारस्य । अत एवेमं विरो-धाभासमाचक्षते । आ ईषद्भासत इत्याभास: । विरोधश्चासावाभास-श्चेति । आमुख एव प्रतीयमानो झगिति जायमानाविरोधबुद्धितिरस्कृत इति यावत्‍ । तत्रापि कार्यकारणादिबुद्धयनालीढो विरोधाभासो विरोधालंकार: । तदालीढस्तु विभावनादिर्वक्ष्यमाण: । अस्य च जातिगुणाक्रिया-द्रव्यानां पदार्थानां मध्ये जातेर्जातिगुणक्रियाद्रव्यै:, गुणस्य गुणक्तिया-द्रव्यै:, क्रियाया: क्रियाद्रव्याभ्याम्‍, द्रव्यस्य द्रव्येणेत्यपुनरुक्ता दश भेदा: । क्रिया चात्र न वैयाकरणानामिव शुद्धा भावना । नापि नैयायिकानामिव स्पन्दरूपा । किं तु तत्तद्धातुवाच्या विशिष्टव्यापाररूपा ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP