पर्यायोक्त अलंकारः - लक्षण ३

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


तदेवं पक्षाणां निष्कर्षे स्थिते यदस्मिन्प्रकरणे कुवलयानन्दकारेणोक्तं तत्सर्वमविचारितरमणीयमेव । तथा हि यत्तावदुच्यते-“-‘ नमस्तस्मै कृतौ येन मुधा राहुवधूस्तनौ ’ । अत्र भगवान्वासुदेव: स्वाधारणरूपेण गम्यो राहुवधूकुचवैयर्थ्यकारकत्वेन रूपान्तरेणाभिहित: ” इति, तन्न । अत्र हि राहुवधूकुचौ येन मुधा कृतावित्यभिहितेन राहुवधूकुचवैयर्थ्यकारि-
त्वेन राहुशिरश्छेदकारित्वं व्यज्यत इति तावन्निर्विवादम्‍ । भगवद्वासु-देवत्वं तु विशेषणमर्यादालभ्यं न काव्यमार्गीयव्यड्रयकक्षामारोढुं प्रभवति । अन्यथा ‘ नमो राहुशिरश्छेदकारिणे दु:खहारिणे इत्यत्रापि भगवद्वासुदेव-स्वव्यड्रयताप्रयुक्तं पर्यायोक्तमलंकार: स्यात्‍ । विशेषणमर्यादालभ्यस्य च धर्मस्य किंचिव्द्यड्रयतास्पर्थ: सन्नपि न स काव्यमार्गे गण्यते । असुन्दर-त्वात्‍ । अन्विताभिधाने अतिविशेषवपुष इव सामान्यरूपाणां पदार्था-
नामन्वये । किं च ‘ राहुस्त्रीकुचनैष्फल्यकारिणे हरये नम: ’ इत्यत्र भगवत: स्वशब्देनाभिधेयस्य स्वाधारणरूपेणाप्यगम्यत्वाद्राहुशिरश्छेद-कारित्वेनैव व्यड्रयत्वमेष्टव्यम्‍, न स्वासाधारणधर्मरूपेण । न चात्र पर्यायोक्तं नास्तीति कस्यापि संमतम्‍ । यदप्युक्तम्‍ ‘ सर्वस्वकारस्य लोचन-कर्तुश्च सर्वोऽप्ययं क्लेश: किमिति न विद्म: ’ इति, तत्र यदर्थं तेषां क्लेश-
स्तत्तु तन्मतनिष्कर्षावसर एव निरूपितम्‍ । यदप्युक्तम्‍ “-‘ चक्राभिघात-प्रसभाज्ञया-’ इति प्राचीनोदाहरणे यद्राहुशिरश्छेदावगमनं तत्र प्रागुक्त-रीत्या प्रस्तुताड्‍कुर एव । यत्तु प्रस्तुतेन राहो: शिरोमात्रावशेषेणालिड्रन-वन्धत्वाद्यापादनरूपे वाच्ये भगवतो रूपान्तरे उपपादिते भगवदूपेणाव-गमनं तत्पर्यायोक्तस्य विषय: ” इति, तदपि न । यदि राहुशिरच्छेदाव-गमनं त्वत्कल्पितस्य प्रस्तुताड्‍कुरस्य विषय: स्यात्तदा किं पर्यायोक्तेन ? भगवदूपेणावगमनं तु विशेषणमर्यादालभ्यत्वेनासुन्दरम्‍ ‘ नमो राहुशिर-श्छेदकारिणे ’ इत्यादाविव न कस्याप्यलंकारस्य विषय इत्युक्तमेव । प्रस्तुताड्‍कुरस्य प्राचीनैरस्वीकाराच्च । स्वीकारे वा प्रस्तुतेन स्वसदृशो
वाक्यार्थ: प्रस्तुत एव यत्र व्यज्यते, स तस्य विषयोऽस्तु । न तु कार्येण प्रस्तुतेन कारणावगमनम्‍ । अन्यथा ‘ ह्यप्रस्तुतेन कार्येण प्रस्तुतकारणाव-गमने अप्रस्तुतप्रशंसैव । प्रस्तुतेन कार्येण प्रस्तुतस्यैव कारणस्यावगमनं तु पर्यायोक्तस्य विषय: ’ इत्यंलकारसर्वस्वकारादिभि: प्राचीनै: कृतो विषयविभाग उच्छिन्न एव स्यात्‍ । ‘ राहुवधूगतेन विशिष्टेन रतोत्सवेन राहुशिरश्छेद: कारणरूपो गम्यते । एवमन्यत्रापि पर्यायोक्तं ज्ञेयम्‍ ’ इति त्वदुपजीव्यग्रन्थविरोधाच्च । तस्मादत्र राहुशिरश्छेदकारित्वेनावगम:पर्यायोक्तस्य विषय:, न तु भगवदूपेणेति सह्लदयैराकलनीयम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP