पर्यायोक्त अलंकारः - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथ पर्यायोक्तम्‍-
विवक्षितस्यार्थस्य भड्रयन्तरेण प्रतिपादनं पर्यायोक्तम्‍ ।
येन रूपेण विवक्षितोऽर्थस्तदतिरिक्त: प्रकारो भड्रयन्तरम्‍ । आक्षेपो वा । यथा-
‘ त्वां सुन्दरीनिवहनिष्ठुरधैर्यगर्व-निर्वासनैकचतुरं समरे निरीक्ष्य । केषामरिक्षितिभृतां नवराज्यलक्ष्मी:स्वामिव्रतात्वमपरिरखलितं बभार ॥ ’
अत्र सर्वापि शत्रूणां राज्यसंपत्त्वां प्राप्तेति विवक्षितो‍ऽर्थो न ताद्रूप्येणा-भिहित:, अपि तु स्खलितपातिव्रत्या बभूवेत्याकारेण ।
यथा वा-
‘ सूर्याचन्द्रमसौ यस्य वासो रञ्जयत: करै: । अड्ररागं सृजत्यग्निस्तं वन्दे परमेश्वरम्‍ ॥ ’
अत्रापि गगनाम्बर इति सूर्यचन्द्रकररज्यमानवस्त्र इत्याकारेण, भस्माड्रराग इत्यग्रिसृज्यमानाड्रराग इत्याकारेण च निरूपित: ।
‘ अस्यां च गम्यस्य येनाकारेण गम्यता तदतिरिक्ताकारेण वाच्यता । तेन पर्यायेण भड्रयन्तरेणोक्तमभिहितं व्यड्रय्म यत्रेति प्राचीनैर्निर्मितं लक्षणं व्यड्रयत्ववाच्यत्वयोर्विरोधादसंगतमिति नाशड्कनीयम्‍ । एकस्यैव प्रकारभेदेन वाच्यत्वव्यड्रयत्वयोरविरोधात्‍ । यथा यावकमहारजनदाडिमी-
जपाकुसुमादिरूपाणां रक्तत्वादिना वाच्यत्वे‌ऽपि तत्तद्वैजात्यरूपेण प्रत्यक्षत्वमेव न तु वाच्यत्वम्‍ , एवमिहापि, इति मम्मटभट्टा: ।
अलंकारसर्वस्वकरस्तु -‘ गम्यस्यापि भड्रयन्तरेणाभिधानं पर्या-योक्तम्‍ । गम्यस्यैव सत: कथमभिधानमिति चेत्‍ ’ कार्यादिद्वारेण ’ इत्याह ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP