श्लेष अलंकारः - लक्षण ५

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अन्ये तु-“ अलंकारा हि प्राधान्येन चमत्काराधायका: स्वां स्वामाख्यां लभन्ते । त एव परोपकारकतया वर्तमानास्तां त्यजन्ति । यथा-‘ रराज भूमौ वदनं मृगाक्ष्या नभोविभागे हरिणाड्कबिम्बम्‍ ’ इत्यत्र प्रकृताऽप्रकृता-त्मनामेकधर्मसंबन्धो दीपकाख्यां भजते, त्यजति च ‘ राजते वदनं तन्व्या नभसीव निशाकर: ’ इत्यत्र । अत्र एवोच्यते- ‘ प्राधान्येन व्यप-देशा भवन्ति ’ इति । एवं चालंकारान्तरोपस्कारकतया स्थित: श्लेष:
कथंकारं स्वगृहस्थ इव श्लेषालंकारव्यपदेशं वोढुमीष्टामिति बाध्यप्राय एव ” इत्यप्याहु: ।
तदित्थं संक्षेपेण श्लेषस्य दिक्प्रदर्शिता । यत्र तु प्रकृताप्रकृतोभयबि-शेष्ययोरपि श्लिष्टपदोपात्तत्वं स तु ध्वनेर्विषय इत्युक्तम्‍ । स च यथा-
‘ अविरलविगलद्दानोदकधारासारसिक्तधरणितल: । धनदाग्रमहितमूर्तिर्जयतितरां सार्वभौमोऽयम्‍ ॥ ’
अत्र राजनि प्रस्तुते उदग्दिग्गजो‍ऽप्रस्तुतोऽपि व्यञ्जनमर्यादया
प्रतीयते । तत्राप्रस्तुताभिधानं मा प्रसाड्क्षिदिति प्रस्तुताप्रस्तुतयोरुपमानोप-मेयभावे तात्पर्यं कल्प्यते । इमं च शदशबक्तिमूलानुरणनरूपं ध्वनिमाहु: । उदाह्लतश्व ध्वनिकारै:-
‘ उन्नत: प्रोल्लसद्धार: कालागुरुमलीमस: । पयोधरभरस्तस्या: कं न चक्तेऽभिलषिणम्‍ ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP