व्यतिरेक अलंकारः - लक्षण १०

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अलंकारान्तरोत्थापितोऽप्ययं संभवति । यथाईश्वरेण समो ब्रह्मा पिता साक्षान्महेश्वर: । पार्वत्या सदृशी लक्ष्मीर्माता मातु: समा भुवि ॥ पितास्य काष्ठसदृश: स्वयं पावकसंनिभ: ॥ ’
अत्र रूपकानन्वयोपमा उपमेयोत्कर्षस्योपमा एवोपमानापकर्षस्य च हेतव: ।
अस्य चालंकारस्य सादृश्यगर्भत्वात्‍ सादृश्यस्य च त्रिविधधर्मोत्थापित-
‘ अरुणमपि विद्रुमद्रुं मृदुलतरं चापि किसलयं बाले । अधरीकरोति नितरां तवाधरो मधुरिमातिशयात्‍ ॥ ’
अत्रारुण्यम्रदिमानावनुगामिनौ ।
बिम्बप्रतिबिम्बभावापन्ने यथा-‘ जलजं ललितविकासं सुन्दरहासं तवाननं हसति ’ । अत्र हासविकासयोर्बिम्बप्रतिबिम्बभाव: , ललित्यसौन्दर्य यो: शुद्धसामान्यता । श्लेषोपात्तं जडजत्वं स्वाश्रायापकर्षहेतु: ।
एवं सादृश्यनिषेधालीढो व्यतिरेको निरूपित: । अभेदालीढोऽप्येष
संभवति यथा-
‘ निष्कलड्क निरातड्क चतु: षष्टिकलाधर । सदापूर्ण महीप त्वं चन्द्रोऽसीति मृषा वच: ॥ ’
इति रसगंगाधरे व्यतिरेकप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP