व्यतिरेक अलंकारः - लक्षण ६

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


यथा-
‘ अपारे किल संसारे विधिनैको‍ऽर्जुन: कृत: । कीर्त्या निर्मलया भूप त्वया सर्वेऽर्जुना: कृता: ॥ ’
‘ अशीतलोग्रश्चण्डांशुरनुग्रशिशिर: शशी । उग्रशीतस्त्वमेकोऽसि राजन्कोपप्रसादयो: ॥ ’
यथा वा-
‘ स तु वर्षति वारि वारिदस्त्वमुदाराशय रत्नवर्षण: । स कुहूरजनीमलीमसस्त्वमिहान्तर्बहिरेव निर्मल: ॥’
अत्रोपमान-तद्विशेषणोपादानसामर्थ्यादाक्षिप्त एव व्यतिरेक:, न तु व्यड्रय इति कदापि भ्रमितव्यम्‍ । सत्यनुपपत्तिलेशे व्यञ्जनाया अप्ररोहात्‍ । इह च राजविशेषणस्य यथाकथंचित्स्तुत्यर्थत्वेऽप्युपमानतद्विशेषणोपादानस्य नृपोत्कर्षमन्तरेणानुपपत्तेर्जागरूकत्वात्‍ । यत्र तूपमानतद्विशेषणोपादानम-न्तरेणैवोपमेयविशेषणै: ‘ सुन्दरो देवदत्त: ’ इत्यादाविव वस्तुस्थितिप्रकाश-
नेन कृतार्थैरप्याकूतविशेषेण स्वविलक्षणविशेषणविशिष्टधर्म्यन्तरापेक्षया वर्ण्यस्योत्कर्ष: प्रतीयते स व्यञ्जनाविषय: । यथा-
‘ न मनागपि राहुरोषशड्का न कलड्कानुगमो न पाण्डुभाव: । उपचीयत एव कापि शोभा परितो भामिनि ते मुखस्य नित्यम्‍ । ’
अयं व्यतिरेकध्वनिरर्थशक्तिमूल: ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP