व्यतिरेक अलंकारः - लक्षण ४

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अत्रेवादे: सादृश्यमात्रशक्तस्य सदृशादेश्च तद्विशिष्टशक्तस्य शब्दस्याभा-वाच्छुत्यर्थमार्गोल्लड्घिनी खर्वीकरणेनाक्षिप्तैवोपमा । अत्रैव ‘ नि:सड्रैरभि-
लषिता ‘ इत्याद्यचरणनिर्माणे ‘ संपातदुरन्तचिन्तयाकुलितम्‍ ’ इति द्वितीय चरणनिर्माणे वा एकतरानुपादानम्‍ । सा च । ‘ सर्वानर्वाचीनान्निर्वास्य मनोरथाननन्यजुषाम्‍ ’ इति पूर्वार्धे तदनुपादानमिति ।
‘ क्तूरसत्त्वाकुलो दोषाकरभूस्तोयधिर्यथा । न तथा त्वं यतो भूप स्थिरधीरसि निर्मल: ॥ ’
अत्रोपमा श्रौती । श्लेषस्तु स्फुट एव ।
‘ राजन्प्रचण्डमार्तण्डमण्डलोद्दण्डशासन । कथमक्तूरसत्त्वस्त्वं पयोधिरिव गीयसे ॥ ’ इति,
‘ कथं वार्धिरिवासि त्वं यत: स विषभागयम्‍ ’ इति वा कृते एकतरानुपादानम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP