व्यतिरेक अलंकारः - लक्षण ३

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


उदाहरणम्‍-
‘ कटु जल्पति कश्विदल्पवेदी यदि चेदीदृशमत्र किं विदष्म: । कथमिन्दुरिवाननं त्वदीयं सकलड्क: स कलड्कहीनमेतत्‍ ॥ ’
अत्रोभयोरुपादानम्‍ । उपमा च श्रौती । अत्रैव ‘ कथमिन्दुरिवाननं तवेदं द्युतिभेदं न दधाति यत्कदापि ’ इति कृते , द्युतिभेदं खलु यो दधाति
नित्यम्‍ ’ इति वा कृते एकतरानुपादानम्‍ । सा च । ‘ कथमिन्दुरिवाननं मृगाक्ष्या भवितुं युक्तमिदं विदन्तु सन्त: ’ इति कृते हेतुसामान्यानुपादानम्‍ । सा च । हेतुद्वये हि यस्यैवानुपादानं तस्याक्षेपेणावगति: । उभयोरप्यनुपा-दाने तथैव न त्वनवगति: , व्यतिरेकम्योत्कर्षापकर्षरूपत्वात्‍ । तयोश्च प्रयोजकज्ञानमन्तरेणानवबोधात्‍ । एवम्‍-
‘ नयनानि वहन्तु खञ्जनानामिह नानाविधमड्रभड्रभाग्यम्‍ । सदृशं कथमाननं सुशोभं सुदृशो भडुरसंपदाम्बुजेन ॥ ’
अत्रोभयोपादानम्‍ । आर्थी च । ‘ वदनं तु कथं समानशोभं सुदृशो भडुरसंपदाम्बुजेन ’ [ इति ], ‘ शाश्वतसंपदम्बुजेन ’ इति च कृते एकतरा-नुपादानम्‍ । सा च । ‘ सद्दशं कथमाननं मृगाक्ष्या भविता हन्त निशा-धिनायकेन ’ इति कृते उभयानुपादानम्‍ । सा च । पूर्वार्धे तु निदर्शनैव ।
‘ कतिपयदिवसविलासं नित्यसुखासड्रमड्रलसवित्री । खर्वयति स्वर्वासं गीर्वाणधुनीतटस्थितिर्नितराम्‍ ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP