व्यतिरेक अलंकारः - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथ व्यतिरेक:-
उपमानादुपमेयस्य गुणविशेषवत्त्वेनोत्कर्षो व्यतिरेक: ॥
प्रतीपादिवारणाय तृतीयान्तं वैधर्म्यपरम्‍ । पत्र चोपमानतामात्रकृत
एवोत्कर्ष:, न वैधर्म्यकृत:, साधर्म्यस्यैव प्रत्ययात्‍ । अधिकगुणवत्त्व-मात्रम्‍, उपमानगतापकर्षमात्रं वा न व्यतिरेकस्वरूपम्‍ , तयोरुपमेयोत्कर्षा-क्षेपमन्तरेणासुन्दरत्वात्‍ । अत एव न सादृश्याभावमात्रम्‍ । उपमा-नादुपमेयस्यापकर्षे‍ऽपि तत्संभवात्‍, तस्य च वास्तवत्वेनासुन्दरत्वात्‍ । उपमेयोत्कर्षविशिष्टत्वेन सादृश्याभावविशेषणे तस्यैवालंकारत्वौचित्यात्‍ ।
उदाहरण-
‘अनिशं नयनाभिरामया रमया संमदिनो मुखस्य ते । निशि नि:सरदिन्दिरं कथं तुलयाम: कलयापि पड्कजम्‍ ॥ ’
अयं चोपमेयोत्कर्षकोपमानापकर्षकयोर्वैधर्म्ययोर्द्वयोरप्युपादानानुपा-दानाभ्यामेकतरानुपादानेन च तावच्चतुर्धा । सो‍ऽप्युपमाया: श्रौतीत्वार्थी-त्वाक्षिप्तात्वैर्द्वादशविधो भवन्सश्र्लेषनि: श्लेषत्वाभ्यां चतुर्विंशतिप्रकार इति प्राञ्च: ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP