TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

दृष्टान्तालंकार : - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


लक्षण १
प्रकृतवाक्यार्थघटकानामुपमानादीनां साधारणधर्मस्य च बिम्ब-प्रतिबिम्बभावे दृष्टान्त: ॥
तदुक्तम्‍-‘ दृष्टान्त: पुनरेतेषां सर्वेषां प्रतिबिम्बनम्‍ ’ इति ।
उदाहरणम्‍-
‘ सत्पूरुष: खलु हिताचरणैरमन्दमानन्दयत्यखिललोकमनुक्त एव । आराधित: कथय केन करैरुदारैरिन्दुर्विकासयति कैरविणीकुलनि ॥ ’
प्रतिपत्त्यर्थम्‍ । अत: सादृश्यप्रतीत्यप्रतीतिभ्यामनयोरलंकारयोर्भेद: ’ इत्याह । तन्न । प्रकृताप्रकृतवाक्यार्थयोरुपादानस्यालंकारद्वयेऽप्य-विशिष्टत्वादेकत्र सादृश्यप्रत्यय:, अन्यत्र नेत्यस्याऽऽज्ञामात्रत्वात्‍ । वैपरीत्यस्यापि सुवचत्वाच्च । एतादृशोऽर्थोऽन्यत्रापि स्थित इति प्रकृतार्थ-प्रतीतिविशदीकरणस्य त्वदभिहितस्य सादृश्यापरपर्यायत्वाच्च । अत एव प्रायश; सत्कविनिर्मितेषु लक्ष्येषु प्रकृतवाक्यार्थघटकप्रकृतिप्रत्यया-र्थानुरूपप्रकृतिप्रत्ययार्थघटित एवाप्रकृतवाक्यार्थो दृश्यते । न च भवदु-क्तमपि वैलक्षण्य्म नानयो: पृथगलंकारतायां प्रयोजकम्‍ । औपम्याख्यसा-मान्यलक्षणाक्तान्ततया उपमाभेदवदेकालंकारभेदत्वापत्तेरिति वाच्यम्‍ । तवापि दीपकतुल्ययोगितयोरेकभेदत्वापत्ते: । इष्टापत्तिरिति चेत्सैवात्रापि दृश्यताम्‍ । प्राचीनविभागस्य भवतैव शिथिलीकृतत्वात्‍ । औपम्यरूप-सामान्यलक्षणसत्त्वाद्वहूनामलंकाराणामुपमा‍ऽवान्तरभेदत्वापत्त्या सकला-लंकारिकसिद्धान्तभड्रप्रसड्राच्च । “-‘ अब्धिर्लड्रित एव वानरभटै:- ’ इत्यादिमुरारिपद्ये यद्यपि ज्ञानार्थ एको धर्मो निर्दिष्टस्तथापि नैतन्निबन्धनमौ-पम्यं विवक्षितम्‍ । यन्निबन्धनं च विवक्षितं तत्राब्धिलड्घनादावस्त्येव दिव्य वागुपासनादिना प्रतिबिम्बनम्‍ ” इति त्वन्मूलग्रन्थविरोधाच्च । न च यन्नि-बन्धनं च विवक्षितमित्यत्रार्थालंकारत्वं विशेष्यं शेषपूरणेन योज्यम् , न पुनरौपम्यमिति वाच्यम्‍ । औपम्यं न विवक्षितमित्यत्रैकवारं निष्ठया परामृ-ष्ठस्यैव पुनस्तया परामर्शस्य व्युपत्त्ते: । ‘ न चैत्रार्थमोदन: पक्क:, यदर्थं च
पक्क: स मैत्र: ’ इत्यादौ द्वितीयपक्कादिशब्दानामध्याह्लतशाकादिपरत्वे असं-गते: स्फुटत्वात्‍ । तस्मादस्मदुक्तेनैव पथा प्राचीनैर्विहितो‍ऽलंकारयोरनयो-र्विभाग: संगमगीय: । यदि तु न तेषां दाक्षिण्यं तदैकस्यैवालंकारस्य द्वौ भेदौ-प्रतिवस्तूपमा, दृष्टान्तश्च । यच्चानयो: किंचिद्वैलक्षण्यं तत्प्रभेदताया एव साधकम् , नालंकारताया इति सुवचम्‍  ।
वैधर्म्येणायं यथा-
‘ जनयन्ति परप्रीतिं नरा: सत्कुलसंभवा: । नहि कारस्कर: क्कापि तापनिर्वपणक्षम: ॥ ’
यथा वा-
‘ तापत्रयं खलु नृणां ह्लदि तावदेव यावन्न ते वलति देव कृपाकटाक्ष: । प्राचीललाटपरिचुम्बिनि भानुबिम्बे पड्केरुहोदरगतानि कुतस्तमांसि ॥ ’
प्रीतिजनन-तापनिर्वापणाभावयो: , तापत्रयावस्थान-तमोदूरीकरण-योश्च वै धर्म्येणात्र बिम्बप्रतिबिम्बभाव: ।
इति रसगंगाधरे दृष्टान्तप्रकरणम्‍ ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:07.6600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

gauche conformation

  • गॉशे समविन्यास 
  • (also called skew conformation) 
RANDOM WORD

Did you know?

मंत्राग्नी आणि भडाग्नी मध्ये म्हणजे काय? ते केव्हां देतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site