दीपक अलंकारः - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.

Tags :

अथ दीपकम्‍-

प्रकृतानामप्रकृतानां चैकसाधारणधर्मान्वयो दीपकम्‍ ॥
प्राग्वदेवात्राप्यौपम्यस्य गम्यत्वम्‍ । प्रकृतार्थमुपात्तो धर्म: प्रसड्रादप्र-कृतमपि दीपयति प्रकाशयति सुन्दरीकरोतीति दीपकम्‍ । यद्वा दीप इव दीपकम्‍, संज्ञायां कन्‍ । दीपसादृश्यं च प्रकृताप्रकृतप्रकाशकत्वेन बोध्यम्‍ ।
उदाहरणम्-
‘ अमृतस्य चन्द्रिकाया ललितायाश्चापि कविताया: । सुजनस्य च निर्माणं जनयति नहि कस्य संतोषम्‍ ॥ ’
यथा वा-
‘ सुधायाश्चन्द्रिकायाश्च संजीविन्या महौषधे: । दयादृष्टेश्च ते राजन्विश्वसंजीवनं गुण: ॥ ’
यथा वा-
‘ मृतस्य लिप्सा कृपणस्य दित्सा विमार्गगायाश्च रुचि: स्वकान्ते । सर्पस्य शान्ति: कुटिलस्य मैत्री विधातृसृष्टौ नहि दृष्टपूर्वा ॥’
अत्राभाव: साधारणो धर्म:
कस्यचित्प्रकृतत्वे दीपकम्‍, अन्यथा तुल्ययोगितैव । यत्र क्रिया साधारणो धर्मस्तत्र यावतां कर्त्रादिकारकाणां संनिधानं तेषां स्वसजातीये-
नान्येन सह तुल्ययोगिता, दीपकं वा पृथक्पृथग्भवति, औपम्यस्यापि पृथगेव भासमानत्वात्‍ ।
यथा-
‘ सुजना: परोपकारं शूरा: शस्त्रं धनं कृपणा: । कुलवत्यो मन्दाक्षं प्राणात्यय एव मुञ्चन्ति ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP