TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

उत्प्रेक्षा अलंकारः - लक्षण १३

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.

Tags :

लक्षण १३
किं च प्राचां मते हेतुफलोत्प्रेक्षास्थले तद्धेतुकतत्फलकयो: कार्यकारण-थोरेव निगीर्णे विषये उत्प्रेक्ष्णात्स्वरूपस्योत्प्रेक्षायामेव पर्यवसानम्‍, न हेतु-फलयो: । एवं च विभागश्चिरंतनानामुच्छिन्न: स्यात्‍ । अथ स्वरूपतादात्म्या-विशेषेऽपि हेतुफलविशेषणकशुद्धस्वरूपोत्प्रोक्षाया हेतुफलविशेषणकस्वरू-पोत्प्रेक्षायामस्ति हेतुफलकृत एव भेद इति चेत्‍ ‘ तनयमैनाकगवेषणलम्बी-
कृतजलधिजठरप्रविष्टहिमगिरिभुजायमानाया भगवत्या भागीरथ्या: सखी ’ इति प्रागुदाह्लतायां स्वरूपोत्प्रेक्षायां तनयमैनाकगवेषणरूपस्य फलस्योत्प्रेक्ष्य-विशेषणकोटिप्रविष्टत्वापत्ते: , उत्प्रेक्ष्ये साक्षाद्विशेषणताया अप्रयोजकत्वात्‍ । इत्यलं स्वगोत्रकलहेन ।
उत्प्रेक्ष्यमाणेष्वपि यस्य विषयिण उत्प्रेक्षा विधेयतया भासते तदीयो-त्प्रेक्षयैव व्यपदेश:, प्राधान्यात्‍ । तेन ‘ विश्लेषदु:खादिव बद्धमौनम्‍ ’ इत्यत्र नूपुरगतत्वेन दु:खस्योत्प्रेक्षणेऽपि न तदुत्प्रेक्षया व्यपदेशो न्याय्य:, तस्या अड्रत्वेनानुवाद्यत्वात्‍ । किं तु पञ्चम्यर्थोत्प्रेक्षया, तस्या एव इव-शब्दवेद्यत्वेन विधेयत्वात्‍ । तथा ‘ चोलस्य ’ इति पद्येपि वनान्तगतत्वेन न फलोत्प्रेक्षया व्यपदेश: । नापि ‘ कलिन्दजानीरभरे‍ऽर्धमग्ना ’ इत्यत्र शशिकिशोरतादात्म्योत्प्रेक्षया, तदुत्थापितया ध्वान्तकर्तृकवैरहेतुक-निगरणकर्मतादात्म्योत्प्रेक्षया वा, प्रागुक्तादेव हेतोरिति दिक्‍ ।
द्विविधो हि तावद्धर्मोऽपि-स्वत एव साधारण:, साधारणीकरणो-पायेनासाधारणोऽपि साधारणीकृतश्च । स चोपाय: कचिद्रूपकं क्कचिच्छ्‍लेष: क्कचिदपह्लुति: क्कचिद्विम्बप्रतिबिम्बभाव: क्कचिदुपचार क्कचिदभेदाध्यवसायरूपो‍ऽतिशय: ।
यथा-
‘ नयनेन्दिन्दिरानन्दमन्दिरं मिलदिन्दिरम्‍ । इदमिन्दीवरं मन्ये सुन्दराड्रि तवाननम्‍ ॥’
अत्र प्रथमार्धगत: प्रथमो धर्मो रूपकेण विषयविषयिसाधारणीकृत: । द्वितीयश्च विलक्षणशोभयोरभेदाध्यवसायेन । केवलशब्दात्मको‍ऽप्ययं संभवति ।
‘ अड्कितान्यक्षसंघातै: सरोगाणि सदैव हि । शड्के पड्केरुहाणीति शरीराणि शरीरिणाम्‍ ॥’
अयमुपात्त एव भवति । अर्थमयोऽनुपात्तश्चापि भवति । यथा ‘ द्विनेत्र इव वासव: ’ इत्यादौ जगदीश्वरत्वादि: । न चात्र द्विनेत्रत्वादिरूप उपात्त
एव साधारणो धर्म: । साधारण्यार्थमेव तस्य विषयिण्यारोपादिति वाच्यम्‍ । तस्यारोपेण साधारणत्वे कृतेऽपि असुन्दरत्वेनोत्प्रेक्षोत्थापकत्व-विरहात्‍ । साधारणीकरणं तु प्रतिबन्धकनिरासार्थमित्युक्तमेव ।
‘ दृष्टि: संभृतमड्रला बुधमयी देव त्वदीया सभा काव्यस्याश्रयभूतमास्यमरुणाधारो‍ऽधर: सुन्दर: । क्रोधस्तेशनिभूरनल्पधिषण स्वान्तं तु सोमास्पदं राजन्नूनमनूनविक्रम भवान्सर्वग्रहालम्बनम्‍ ॥’
अत्रोत्प्रेक्ष्यमाणस्य सर्वग्रहालम्बनस्य धर्मेषु तत्तद्‍ग्रहाश्रिताड्रकत्वेषु विशेषणीभूतैस्तत्ततद्‍ग्रहैर्विषयस्य राज्ञो धर्मेषु कल्याणाश्रयत्वादिषु विशेष-णानां कल्याणादीनां श्लेषेण ता दात्म्यसंपादनद्वारा तादृशधर्माणां साधारणतासंपत्ति: ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-08-14T16:15:45.0100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सटकन

  • क्रि.वि. १ त्वरेने ; एकदम ; झटकन ; पटकन . २ फळांतून बी उडते त्याप्रमाणें आवाज करून . [ ध्व . ] 
RANDOM WORD

Did you know?

If the rituals after the death are not performed what are the consequences?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site