उत्प्रेक्षा अलंकारः - लक्षण ११

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


एव्म च ‘ लिम्पतीव- ’ इत्यादौ भेदेनाभेदेन वा तिडर्थस्यैव प्रथमा-न्तार्थ एवोत्प्रेक्षणम्‍ । न तु धात्वर्थस्य स्वनिगीर्णे व्यापनादौ, सर्वजन-
सिद्धाया इवार्थस्य विधेयताया अनुपपत्ते: । तम:कर्तृकं लेपनमिवेत्यस्मादपि उद्देश्यबोधकशून्यवाक्यादुत्प्रेक्षाप्रतीत्यापत्तेश्च । यदि च विषयिसंबन्धिना लेपनादिना विषयसंबन्धिनो व्यापनादेर्निमित्ततासंपत्तये स्वताद्रूप्यसंपाद-नेन निगीर्णत्वादनुपात्तविषयत्वमध्यवसानमूलत्वं चोच्यते तदा रूपके‍ऽ-प्यनुपात्तविषयत्वमुच्यतामध्यवसानमूलत्वं च । ‘ लोकान्हन्ति खलो विषम्‍ ’ इत्यादौ खलसंबन्धिनो दु:खदानादेर्विषसंबन्धिह्लननात्मनाध्यव-
सानात्‍ । तस्मान्निमित्तांशेऽतिशयोक्तिरेव । एवम्‍ ‘ उन्मेषं यो मम न सहते ’ इत्यत्र लक्ष्मीरूपे विषये लगनहेतुत्वेन हर्श उत्प्रेक्ष्यते । तत्र साहजिकसंबन्धे तादात्म्येनाध्यवसितं लगनमेव निमित्तम्‍ । तथा-
‘ सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम्‍ । अदृश्यत त्वच्चरणारविन्दविश्लेषदु:खादिव बद्धमौनम्‍ ॥’
अत्रापि मौनहेतुत्वेन नूपुरे विश्लेषदु:खमुत्प्रेक्ष्यते । तत्र निश्चलत्वनि-मित्तकनि:शब्दत्वाध्यवसितं मौनं निमित्तम्‍, विश्लेषदु:खसमानाधिकर-णत्वे सति नूपुरवृत्तित्वात्‍ । न तु निश्चलत्वनिमित्तके नि:शब्दत्वे विषये विश्लेषदु: खहेतुकमौनमभेदेन । उप्तेक्षायामिवशब्दान्वितस्योत्प्रेक्ष्यताया
उत्सर्गसिद्धत्वात्‍ । विषयस्य निगीर्णतया विषयिणो विधेयत्वानुपपत्तेश्च । निमित्तान्तरगवेषणापत्तेश्च । यद्यप्येककालप्रभवत्वादिरस्ति साधारणो धर्मो निमित्तम्‍ । तथापि तस्याचमत्कारित्वादुपमायामिवोत्प्रेक्षायामप्य-प्रयोजकत्वात्‍ । एवं फलोत्प्रेक्षायामपि बोध्यम्‍ । एतेन ‘ यद्वा हेतुफलधर्म-स्वरूपोत्प्रेक्षोदाहरणेष्वपि तादात्म्येनैवोत्प्रेक्षा ’ इति प्राचां मतमनुसरता द्रविडपुंगवेन यदुक्तं तदपि परास्तम्‍ ।
अलंकारसर्वस्वकृता तावदुत्प्रेक्षाया लक्षणमित्थ्म निगदितम-“ विषयि-निगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्ववसाय: । स च द्विविध:-सिद्ध: , साध्यश्च । तत्र साध्यत्वप्रतीतौ व्यापारप्राधान्ये उत्प्रेक्षा इति । ”
अस्यार्थ:- सिद्धत्वं निगीर्णविषयत्वम्‍ । साध्यत्वं च निगीर्यमाणविषय-त्वम्‍ । यत्र हि सिद्धत्वं तत्राध्यवसितप्राधान्यम्‍-यथातिशयोक्त्यादौ । यत्र साध्यत्वं तत्र व्यापारस्याध्ववसानाक्तियाया: प्राधान्ये उत्प्रेक्षा इति ।
एवमभेदगर्भमुत्प्रेक्षालक्षणं विधाय “-‘ सैषा स्थली यत्र ’ इत्यत्र नूपुरगतस्य मौनित्वस्य हेतुत्वेन दु:खं गुण उत्प्रेक्ष्यते । तत्र मौनित्वमेव नूपुरगतनि:- शब्दत्वाभेदेनाध्यवसितं निमित्तम्‍ । ” इत्युक्तम्‍ । एवं ‘ यत्र धर्म एव धर्मिगतत्वेन ’ इत्यादिना धर्मोत्प्रेक्षाप्रसड्रे “ लिम्पतीव तमो‍ऽड्रानि इत्यत्र लेपनक्रियाकर्तृत्वोत्प्रेक्षणे व्यापनादि निमित्तम्‍ । ” इत्युक्तम्‍ । तदेतत्सर्वं परस्परविरुद्धम्‍ । नहि दु:खगुणोत्प्रेक्षायामभेदगर्भोऽ‍ध्यवसायोऽस्ति । मौनांशे सन्नप्यध्यवसाय: सिद्धत्वादतिशयोक्तेरेव विषयो भवितुमर्हति, नोत्प्रेक्षाया: । त्वन्मते मौनस्य निमित्तत्वेनानुत्प्रेक्ष्यत्वाच्च । एवं ‘ लिम्प-तीव ’ इत्यत्र लेनपांशाध्यवसायोऽपि । तस्यापि व्यापनरूपतया स्थितस्य
त्वया कर्तृत्वोत्प्रेक्षानिमित्तत्वेनोक्तत्वाच्च । ‘ व्यापनादौ तूत्प्रेक्षाविषये निमित्तमन्यदन्वेष्यं स्यात्‍ ’ इति स्वयैव बाधकोपन्यासात्‍ । निमित्तांशा-ध्यवसानं तूपमादावपि स्थितम्‍ । किं च, ‘ नूनं मुखं चन्द्र: ’ इत्यादौ कुत्राध्यवसाय:, विषयस्य जागरूकत्वात्‍ । न च सिद्धे‍ऽध्यवसाये विष-यस्य जठरवर्तित्वम्‍, साध्ये तु निगीर्यमाणत्वात्पृथगुपलब्धिरिति वाच्यम्‍, साध्याध्यवसाने मानाभावात्‍ । अन्यथा रूपकादेरप्यध्यव सा नगर्भत्वापत्ते: । किं च, अध्यवसानं लक्षणाभेद: । न चात्र विधेयांशे लक्षणास्ति । अभेदा-दिसंसर्गैराहार्यबोधस्यैव स्वीकारात्‍ । तस्मात्प्राचीनानामाधुनिकानां चोक्तयो न क्षोदक्षमा: ।
एवं प्राप्ते ब्रूम: - तत्र तावद्धर्म्युत्प्रेक्षानिष्कर्ष: प्राचीनमतपरीक्षावसरे कृत तव । हेतूत्प्रेक्षायां पञ्चम्यर्थो हेतु:, अभेदश्च प्रकृतिप्रत्ययार्थयो: संसर्ग इति पक्षे विश्लेषदु:खाभिन्नहेतु: पञ्चम्यन्तार्थ: । तस्य च प्रयोज्य-तासंसर्गेणोत्प्रेक्षणमिवादिना बोध्यते । प्रयोज्यत्वं पञ्चम्यर्थ इति दर्शने

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP