TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

उत्प्रेक्षा अलंकारः - लक्षण १०

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


लक्षण १०
इत्यादौ प्राचीनपद्ये हेतूत्प्रेक्षायामपि न हर्षरूपं हेतुमात्रमुत्प्रेक्ष्यते लक्ष्मी-रूपे विषये, किं तु तद्धेतुकं कार्यं लगनादिरूपं विषयि तादात्म्येन
साहजिकलगनादौ विषये । कार्यस्य निमित्ततावादिनापि विषयगततत्‍-समानजातीयेनाभेदाध्यवसानस्यावश्यवाच्यत्वात्‍ । अन्यथा हेतुरूप-विषयिधर्मसमानाधिकरणधर्मस्य कार्यरूपस्य विषयावृत्तित्वादुत्प्रेक्षैव न स्यात्‍ । एवम्‍
‘ चोलस्य यद्भीतिपलयितस्य भालत्वचं कण्टकिनो वनान्ता: । अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि ॥’
इत्यादिपरपद्ये फलोत्प्रेक्षायां कण्टकिषु वनान्तेषु विषयेषु न केवलं भालत्व-ग्विपाटननिमित्तं ललाटाक्षरदर्शनं फलमुत्प्रेक्ष्यते । किं तु तत्फलकं भालत्व-ग्विपाटनादिरूपं विषयि कण्टकजविपाटनादौ विषये तादात्म्येनेति सर्वत्रा-भेदेनैव विषये विषयिण उत्प्रेक्षणमिति दर्शनम्‍ ।
तत्र विचार्यते-न सर्वत्राभेदेनैवोत्प्रेक्षणमिति नियमे किंचिदस्ति प्रमाणम्‍, लक्ष्येषु भेदेनाप्युत्प्रेक्षणस्य दर्शनात्‍-‘ अस्यां मुनीनामपि मोह-मूहे ’ इत्यादौ । न च मुनिसंबन्धिनि धर्मविशेषे मोहस्याभेदेनोत्प्रेक्षणमिति वाच्यम्‍ । भेदेनोत्प्रेक्षणे बाधकाभावेनेदृशकल्पनाया निरर्थकत्वात्‍ । नह्य-भेदेनैवोत्प्रेक्षणमिति वेदेन बोधितम्‍, यदर्थमयमाग्रह: स्यात, लक्षणनिर्मा-णस्य पुरुषाधीनत्वात्‍ । ‘ लिम्पतीव तमोऽड्रानि ’ इत्यत्रापि लेपनादिकर्तृत्वं तमआदिषु विषयेषूत्प्रेक्ष्यत इत्येव युक्तम्‍ । अनुकूलव्यापारात्मकस्य कर्तृत्व-स्यैवाख्यातार्थत्वात्‍ । तस्य च प्रथमान्ते विशेष्ये आश्रयतासंसर्गेणान्वयान्न दोष: ।
‘ भावप्रधानमाख्यातम्‍ ’ इत्यस्य ‘ भावो व्यापारस्तदर्थकमाख्यातं तिड्‍ ’ इत्यर्थकरणान्न विरोध: । ‘ सत्त्वप्रधानानि नामानि ’ इत्युत्तरवाक्य-गतस्य प्रधानशब्दस्याभिधेयपरत्वात्‍ । फलमात्रार्थस्यापि धातोराख्यातार्थ-
व्यापारव्याधिकरणत्वसमानाधिकरणत्वाभ्यामर्थगताभ्यां सकर्मकाकर्म-क्त्वव्यवहार: । नामार्थयोर्भेदेनान्वयाभावाच्च भावकृदर्थव्यापारस्य न नामार्थेऽन्वय: । अत एव च ‘ कर्तरि कृत्‍ ’ इत्यनेन विशिष्टशक्तिबोधकेन न घञादिषु भावग्रहणस्य विशेषणशक्तिबोधकस्य गतार्थत्वम्‍ । शब्दानु-वृत्तिपक्षस्वीकाराच्च ‘ कर्तरि कृत्‍ ’ इत्यत्र धर्मिपरस्यापि कर्तृग्रहणस्य ‘ ल:
कर्मणि-’ इत्यत्र धर्मपरतायामपि न दोष: । यद्वा आस्तां फलव्यापारौ धातो:, आश्रयश्व तिडोऽर्थ: । परं तु देवदत्त: पचमान इत्यादाविव देवदत्त:पचतीत्यादिष्वपि प्रथमान्तार्थ एव तिडर्थस्याभेदेन विशेषणत्वं युक्तम्‍ , न तु भेदेन धात्वर्थभावनायाम्‍ । सर्वजनसिद्धस्योद्देश्यविधेयभावस्य भड्रा-पत्ते: । सत्यां हि गतौ ‘ प्रत्ययार्थे प्रकृत्यर्थो विशेषणम्‍ ’ इत्यस्योत्सर्गस्या-
प्यनुग्रह एव न्याय्य: । ‘ भावप्रधानमाख्यातम्‍ ’ इत्यस्य ‘ भावनार्थको धातु: ’ इत्यर्थकरणान्न विरोध: । न च वैयाकरणमतविरोधो दूषणमिति वाच्यम्‍, स्वतन्त्रत्वेनालंकारिकतन्त्रस्य तद्विरोधस्यादूषणत्वात्‍ । प्रपञ्चयिष्यते चैत-दधिकमुपरिष्टादिति प्रकृतमनुसराम: ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:07.1770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ट्राम

  • स्त्री. रस्त्यावरून रुळावरून चालणारी गाडी ( विजेची , घोडयाची ). [ इं . ] 
RANDOM WORD

Did you know?

मंत्रांचे वर्गीकरण कशा प्रकारे केले आहे?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.