उत्प्रेक्षा अलंकारः - लक्षण ५

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


तथा-
‘ राज्याभिषेकमाज्ञाय शम्बरासुरवैरिण: । सुधाभिर्जगतीमध्यं लिम्पतीव सुधाकर: ॥’
अत्रापि चन्द्रे विषये तादृशलेपनकर्तृत्वरूपधर्मोत्प्रेक्षेत्येकं दर्शनम्‍ । किरणव्यापने विषये चन्द्रकर्तृकसुधाकरणकलेपनस्य तादात्म्येनोत्प्रेक्षणमिति द्वितीयम्‍ । तत्र प्रथमे मते धवलीकारकत्वरूपनिमित्तानुपादानादनुपात्त-निमित्ता, विषयस्योपादानादुपात्तविषया । द्वितीयेऽपि तस्यैव निमित्तस्या-नुपादानादनुपात्तनिमित्ता, विषयस्य निगीर्णतयानुपात्तविषयेति विशेष: :
तादात्म्येन द्रव्यस्वरूपोत्प्रेक्षा यथा-
‘ कलिन्दशैलदियमाप्रयागं केनापि दीर्घा परिखा निखाता । मन्ये तलस्पर्शविहीनमस्यामाकाशमानीलमिदं विभाति ॥’
अत्र यमुनायां नीलत्वदीर्घत्वनिमित्तकमाकाशतादात्म्योत्प्रेक्षणम्‍ । आकाशत्वस्य स्वरूपात्मकत्वाद्द्रव्योत्प्रेक्षेयम्‍ । अत एवाकाशपदाच्छब्दाश्रच त्वाद्यनुपस्थितिदशायामप्याकाशधी: । नीलत्वरूपनिमित्तस्य विषयिणि सिद्धयर्थं तृतीयचरणोपादानम्‍ । दीर्घत्वरूपनिमित्तसिद्धयर्थं च पूर्वार्धम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP