उत्प्रेक्षा अलंकारः - लक्षण ३

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


सापि प्रत्येकं त्रिविधा- स्वरूपोत्प्रेक्षा, हेतूत्प्रेक्षा, फलोत्प्रेक्षा चेति । तत्र जातिगुणक्तियाद्रव्यरूपाणां तदभावरूपाणां च पदार्थानां तादात्म्ये
नेतरेण वा संबन्धेन जातिगुणक्तियाद्रव्यात्मकैर्व्यस्तै: समुच्चितैरुपात्तैर-नुपात्तैर्निष्पन्नैर्निष्पाद्यैर्वा निमित्तभूतैर्धर्मैर्यथासंभवं जातिगुणाक्रियाद्रव्यात्म-केषु विषयेषूत्प्रेक्षणं स्वरूपोत्प्रेक्षा । तत्राभेदेन संसर्गेण धर्मिस्वरूपोत्प्रेक्षा, संसर्गान्तरेण धर्मस्वरूपोत्प्रेक्षेति चोच्यते । उक्तविधेषु पदार्थेषु प्रागुक्त-प्रकाराणां पदार्थानां तथाविधैरेव निमित्तैर्यथासंभवं हेतुत्वेन फलत्वेन च संभावनं हेतूत्प्रेक्षा चोच्यते ।
एताश्च क्कचिन्निष्पन्नशरीरा: क्कचिन्निष्पाद्यशरीराश्चेत्येवमाद्यनल्प-विकल्पा: संपद्यन्ते । तथापि दिड्भात्रमुपदर्श्यते ।
आख्यायिकायां जात्यवच्छिन्नस्वरूपोत्प्रेक्षा यथा-
‘ तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रविष्टहिमगिरिभुजायमानाया भगवत्या भागीरथ्या: सखी ’ इति । अत्र भागीरथ्यां द्रव्ये जातौ वा हिमगिरिसंबन्धी भुजत्वजात्यवच्छिन्नस्तादात्म्येनोत्प्रेक्ष्यते । तत्र च भागीरथीगतानां श्वैत्यशैत्यलम्बत्वजलधिजठरप्रविष्टत्वानां धर्माणां निमित्ततासिद्धये विषयिहिमगिरिमुजगतत्वमवश्यं संपादनीयम्‍ । तेषां च मध्येऽनुपात्तयो: श्वैत्यशैत्ययोर्हिमगिरिसंबन्धित्वादेव भुजगतत्वं संपन्नम्‍ ।
इतरयोरपि संपादनाय तनयमैनाकगवेषणं फलमुत्प्रेक्षितम्‍, तत्साधनता-ज्ञानस्य लम्बत्वजलधिजठरप्रवेशानुकूलयत्नजनकत्वात्‍ । एवं च विषयि-गततादृशगवेषणफलकलम्बत्वजलधिजठरप्रविष्टत्वाभ्यां विषयगतयो: साहजिकलम्बत्वजलधिजठरप्रविष्टत्वयोरभेदाध्यवसानातिशयोक्त्या साधारण्यसंपत्तौ निमित्तता । न चात्र फलस्याप्युत्प्रेक्षणात्फलोत्प्रेक्षेति वक्तुं शक्यम्‍ । उप्तेक्ष्यमाणफलनिष्पादितनिमित्तोत्थापितायां स्वरूपोत्प्रेक्षायामेव
विधेयत्वाच्चमत्कृतेर्विश्रमात्‍, उत्प्रेक्षाप्रतिपादकस्य प्रत्ययस्य फलेनानन्व-याच्च, तयैवात्र व्यपदेशो युक्त: । अनिगीर्णविषया चेयमुपात्तानुपात्तगुण-क्तियात्मकनिमित्ता निष्पाद्यविशिष्टशरीरा जात्युत्प्रेक्षा हिमगिरिभुजस्य कविनैव निष्पादितत्वात्‍ ।
तादात्म्येन गुणस्वरूपोत्प्रेक्षा यथा-
‘अम्भोजिनीबान्धवनन्दनायां कूजन्बकानां समजो विरेजे । रूपान्तराक्तान्तगृह: समन्तात्पुञ्जीभवञ्शुक्ल इवाश्रयार्थी ॥’
अत्रैकाधिकरण्यापन्ने कूजनविशिष्टे बकत्वजात्यवच्छिन्ने विषये पुञ्जी-

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP