अपहृति अलंकारः - लक्षण ६

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


‘ अनल्पजाम्बूनददानवर्षं तथैव हर्षं जनयञ्जनेषु " दारिद्य्रघर्मक्षपणक्षमो‍ऽयं धाराधरो नैव धराधिनाथ: ॥’

सावयवारोपेयमपह्लुति: ।

आरोपमात्रोपायत्वे परम्परिताप्येषा संभवति । यथा-
‘ मनुष्य इति मूढेन खल: केन निगद्यते । अयं तु सज्जानाम्भोजवनमत्तमतड्रज: ॥’

अस्याश्च ध्वनिर्यथा-

‘ दयिते रदनत्विषां मिषादयि ते‍ऽमी विलसन्ति केसरा; । अपि चालकवेषधारिणो मकरन्दस्पृहयालवोऽ‍लय: ॥’

अत्र ‘ नैत्रा रदनत्विष:, किं तु किंजल्कपरम्परा: । न चैतेऽलका:, अपि त्वलय: ’
इति पूर्वोत्तरार्धाभ्यां द्वे अपह्लुती तावत्प्राकटयेनैव निवेदिते ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP