अस्मिंश्च संशये नानाकोटिषु क्कचिदेक एव समानो धर्म: । क्कचित्‍ पृथक्‍ । सोऽपि क्कचिदनुगामी, क्कचिद्विम्बप्रतिबिम्बभावमापन्न:, क्कचिद- निर्दिष्ट:, क्कचिन्निर्दिष्ट: । तत्र ‘ मरकतमणिमेदिनीधरो वा ’ इति प्रागुदाह्लत-पद्ये श्यामाभिरामत्व्म धर्मिणो रामस्य कोटयोश्च तमालमरकतभूधरयोरेक एवानुगामी धर्म: प्रतीयमानत्वादनिर्दिष्ट: ।

स एव निर्दिष्टो यथा-

‘ नेत्राभिरामं रामाया वदनं वीक्ष्य तत्क्षणम्‍ । सरोजं चन्द्रबिम्बं वेत्यखिला: समशेरत ॥’

अत्र नेत्राभिरामत्वरूपस्त्रिष्वेक एवानुगामी धर्मो निर्दिष्ट: । पृथगनु-गामी निर्दिष्टो यथा प्रागुदाह्लते ‘ आज्ञा सुमेषो: ’ इत्यादौ ।

यथा वा-

‘ संपश्यतां तामतिमात्रतन्वीं शोभाभिराभासितसर्वलोकाम्‍ । सौदामिनी वा सितयामिनी वेल्येवं जनानां ह्लदि संशयो‍ऽभूतू ॥’

अत्रातिमात्रतनुत्वं सौदामिन्या, शोभाभिराभासितसर्वलोकात्वं च सितयामिन्या सह कान्ताया: पृथगनुगामी समानो धर्म: । अत्रैव पूर्वार्धगतविशेषणद्वयत्यागे स एवानिर्दिष्ट: । बिम्बप्रतिबिम्बभावमापन्नो यथा ‘ तीरे तरुण्या वदनं सहासं-’ इत्यादौ प्रागुक्ते ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP