रूपकालंकारः - लक्षण १६

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


तथा-

‘ अयं सज्जनकार्पासरक्षणैकहुताशन: । परदु: खाग्निशमनमारुत: केन वर्ण्यते ॥’

अत्र रक्षणशमनपदे विरोधिलक्षणया विपरीतार्थबोधके । एवं पदार्थरूपकं लेशतो निरूपितमेव ।


वाक्यार्थे विषये वाक्यार्थान्तरस्यारोपे वाक्यार्थरूपकम्‍ ।

यथा हि विशिष्टोपमायां विशेषणानामुपमानोपमेयभाव आर्थस्तथात्रापि वाक्यार्थघटकानां पदार्थानां रूपकमर्थावसेयम्‍ ।

‘ आत्मनोऽस्य तपोदानैर्निर्मलीकरणं हि यत्‍ । क्षालनं भास्करस्येदं सारसै: सलिलोत्करै: ॥’

अत्रात्मनि तपोदानेषु चारोपविषयविशेषणतया बिंबभूतेषु, भास्करम्य सलिलक्षालनादीनां च विषयीविशेषणत्वेन प्रतिबिम्बानां रूपकं गम्यमानं प्रधानीभूतविशिष्टरूपकाड्राम्‍ । ‘ नेदं रूपकम्‍ । रूपके च बिंम्बप्रतिबिम्ब-

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP