रूपकालंकारः - लक्षण १२

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अत्र विषयमालाकृतो न कश्चिच्चमत्कारविशेष इति न पृथग्भेदगणनायां गण्यते । आरोप्यमाणसाला तु चमत्कारविशेषशालित्वाद्नण्यत एव ।

अथ कथं नाम श्लिष्टपरम्परिते ‘ कमलावासकासार ’ इत्यादावेकस्या-

रोपस्यारोपान्तरोपायत्वम्‍ । यत: श्लेषेण कमलानामावासस्य कमलाय़ा वासस्य चाभेदमात्रमत्र प्रतीयते, नैकत्रान्यारोप: । तस्य स्वतन्त्रविषय-निर्देशापेक्षत्वात्‍ । न च शुद्धाभेदप्रत्यय एवारोप: । विषयनिगरणात्मि-कायामतिशयोक्तावपि तत्प्रसड्रात्‍ । न च शुद्धाभेदप्रत्ययेनात्रार्थ: यत्संब-न्धिनि यत्संबन्प्यभेदस्तस्मिंस्तदभेद इति ‘ कमलावासकासार: ’ इत्यादौ

राजनि कासारारोपो राजसंबन्धिनि लक्ष्म्याश्रयत्वे कासारसंबन्धिसरोजा-श्रयत्वाभेदारोपेण समर्थयितुं शक्य: । श्लेषेण तु पुनर्लक्ष्म्याश्रयत्वसरोजा-श्रयत्वयोरभिन्नत्वेन प्रत्ययादभिन्नधर्मनिबन्धनो राजकासारयोरप्यभेद-प्रत्यय: स्यात्‍, न तु राजनि विषये कासारविषयिकस्यारोपस्य प्रकृतस्य सिद्धि: । इमावभिन्नावित्याद्याकारस्य शुद्धाभेदप्रत्ययस्याप्रकृतत्वात्प्रागुक्त आरोपो मृग्य: । स च न श्लेषसाध्य: इति । सत्यम्‍ । श्लेषेण शुद्धाभेद-प्रतीतौ सत्यां प्रकृतारोपसमर्थनायान्तरा मानसस्य राजसंबन्धिनि

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP