रूपकालंकारः - लक्षण २

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


यत्तु “ सादुश्यप्रयुक्त: संबन्धान्तरप्रयुक्तो वा यावान्‍ भिन्नयो: सामानाधिकरण्यनिर्देश: स सर्वोऽपि रूपकम्‍ । सारोपलक्षणामूलकत्वस्य तुल्यत्वेन साद्रुश्यप्रयुक्तस्य तादात्म्यस्येव संबन्धान्तरप्रयुक्तस्यापि तादा-त्म्यस्य संग्रहीतुमौचित्यात्‍ । तस्मात्‍ दुराग्रह एवायं प्राचाम्‍-उपमानो-पमेययोरभेदो रूपकम्‍, न तु कार्यकारणयो: ”
इति रत्नाकरेणोक्तम्‍, तन्न । अपह्लुत्यादौ भिन्नयो: सामानाधिकरण्यस्य सत्त्वात्तत्रातिव्याप्ते: ।

किं च ‘ सादृश्यमूलकं स्मरणं स्मरणालंकार:, न तु चिन्तादिमूलम्‍ ’ इति भवतैव पूर्वमुदितम्‍ । तत्र यदि सादृश्यामूलकस्यापि कार्यकारणादिकयो: कल्पितस्य तादूप्यस्य रूपकत्वमभ्युपेयते तदा सादृश्यामूलकस्य चिन्ता-दिमूलस्य स्मरणस्याप्यलंकारत्वमभ्युपेयताम्‍ । न च स्मरणस्य भावत्वमु-च्यमानं निर्विषयं स्यादिति वाच्यम्‍ । तस्य व्यज्यमानविषयत्वेनोपपत्ते: ।

अप्ययदीक्षितास्तु-

“-‘ बिम्बाविषिष्टे निर्दिष्टे विषये यद्यनिह्लुते । उपरञ्जकतामेति विषयी रूपकं तदा ॥’

अत्र बिम्बाविशिष्ट इति विषयविशेषणात्‍ ‘ त्वत्पादनखरत्नानां यदलक्तकमार्जनम्‍ । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधो: ॥’

इति निदर्शनाया निरास: । तत्र विषयस्य मार्जनस्यालक्तकादिरूप-बिम्बविशिष्टत्वात्‍ । निर्दिष्ट इति विशेषणान्निगीर्णविषयायाम्‍ ‘ कमल-मनम्भसि कमले च कुवलये तानि कनकलतिकायाम्‍ ’ इत्याद्यतिशयोक्तौ नातिव्याप्ति: । अनिह्लुते निषेधास्पृष्ट इति विशेषणादपह्लुतौ नातिव्याप्ति: । उपरञ्जकतामाहार्यतादूप्यनिश्चयगोचरतामेतीत्यनेन ससंदेहोत्प्रेक्षासमासो-क्तिपरिणामभ्रान्तिमत्स्वतिव्याप्तिनिरास: । ससंदेहोत्प्रेक्षयोर्निश्चयस्यैवा-भावात्‍ । समासोक्तिपरिणामयोर्विषयितादूप्यस्यागोचरत्वात्‍, समासोक्तौ व्यवहारमात्रसमारोपात्‍ । परिणामे चारोप्यमाणस्यैव विषयतादूष्यगो-चरत्वात्‍ । भ्रान्तिमति च सत: कल्पितम्य वा प्रवृत्त्यादिपार्यन्तिकस्वार-सिकभ्रमस्यैव निबन्धनेन तस्यानाहार्यत्वात्‍ । ”


N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP