अनन्वय अलंकारः - लक्षण २

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


एवम्‍-

‘ लड्कापुरादतितरां कुपित: फणीव निर्गत्य जातु पृतनापतिभि: परीत: । क्तुद्धं रणे सपदि दाशरथिं दशास्य: संरब्धदाशरथिदर्शमहो ददर्श ॥’

एवं कर्तृणमुलादावप्यूह्मम्‍ ।

‘ अम्बरत्यम्बरं यद्वत्समुद्रोऽपि समुद्रति । विक्तमार्कमहीपाल तथा त्वं विक्तमार्कसि ॥’

अत्र वाक्यार्थावयवेष्वनन्वयेषु धर्मवाचकयोर्लोप: । मुखवाक्यार्थस्त्व-नन्वयफलेन निरुपमत्वेन समानधर्मेण प्रयोजितो मालोपमैव । एषा च ज्ञानसौकर्यायात्रैव निरूपिता ।

‘ एतावति प्रपञ्चे‍ऽस्मिन्सदेवासुरमानुषे । केनोपमीयतां तज्ज्ञै रामो रामपराक्तम: ॥ ’

अत्र वाचकधर्मोपमानानां लोप: । अत्र चोपमानलुप्तादयोऽन्ये भेदा असंभवादह्लद्यत्वाच्च नोदाह्लता: ।

यत्तु-“ तेन तदेकदेशेनावसितभेदेन बोपमानतया कल्पितेन सादृश्य-मनन्वय: । उपमेयेनैवोपमानतया कल्पितेनोपमेयस्यामुखावभासमानसा-धर्मापादनमेकोऽनन्वय: । उपमेयैकदेशस्य तथैवोपमानताकल्पनमपर: । उपमेयस्यैव प्रतिबिम्बत्वादिना भेदेनावसितस्य तत्त्वकल्पनं तृतीय: ।

आद्यो यथा- ‘ युद्धे‍ऽर्जुनो‍ऽर्जुन इव प्रथितप्रताप: ’ इत्यादि ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP