उपमेयोपमा अलंकारः - लक्षण ६

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


एवम्‍-
‘ रजोभि: स्यन्दनोद्धूतैर्गजैश्व घनसंनिभै: । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम्‍ ॥ ’

इत्यत्र परस्परोपमायामतिव्याप्ति: । सदृशान्तरव्यवच्छेदफलकत्वेन विशिष्यमाणे तु तस्मिन्नस्मदुक्त एव पर्यवसानम्‍ ।

यच्च विमर्शिनीकारेणोक्तम्‍ “ स च वाक्यभेद: शाब्द आर्थश्व । तत्र

शाब्दो यथा-‘ रजोभि: स्यन्दनोद्धूतै: ’ इत्यादि: । अस्याश्चोपमानान्तर-तिरस्कार एव फलम्‍ । अत एवोपमेयेनोपमेत्यन्वर्थाभिधत्वम्‍ ”
इति, तत्तु-च्छम्‍ । न हि ‘ रजोभि: स्यन्दनोद्धूतै: ’ इत्यत्रोपमानान्तरतिरस्कार: प्रती-यते । द्वयोरुपमयोरेकधर्मकत्वाभावात्‌, आद्याया उपमाया अनुगामिधर्म-प्रयोज्यत्वात्‍, द्वितीयायाश्च बिम्बप्रतिबिंबभावापन्नधर्मप्रयोज्यत्वात्‍ । यदपि ‘ परस्परमुपमानोपमेयत्वमुपमेयोपमा ’ इति लक्षणं विधाय ‘ सविता विधवति- ’ इत्यादि प्रागुक्तपद्यं रत्नाकरेणोदाहारि, तच्च तदीयेनैव ‘ स चोपमानान्तरनिषेधार्थ: ’ इति ग्रन्थेन विरुद्धम्‍ । न ह्यस्मिन्पद्ये उपमाना-न्तरनिषेध: प्रतीयत इति प्रागेवावेदनात्‍ । प्रतीयत एवेति चेत्‍, पुनरपि पृच्छ ह्लदयमेव स्वकीयम्‍ । इत्यलं विवादेन ।

इयं चोपमेयोपमा यदि कस्याप्यर्थस्योत्कर्षाधायिका तदालंकार: । अन्यथा तु स्ववैचित्र्यमात्रपर्यवसितेति । एवमलंकारान्तरेऽपि ज्ञेयम्‍ ।

अथ ध्वन्यमानेयभुदाह्लियते-
‘ गाम्भीर्येणातिमात्रेण महिम्रा परमेण च । राघवस्य द्वितीयोऽब्धिरम्बुधेश्वापि राघव: ॥’

द्वितीयशब्दस्य सादृश्यविशिष्टे शक्त्यभावाव्द्यक्तिरेव । यदि तु लक्षणा तदेदमुदाहरणम्‍ -

‘ सुधासमुद्रं तव रम्यवाणी वाचं क्षमाचन्द्र सुधासमुद्र: । माधुर्यमध्यापयितुं दधाते खर्वेतरामान्तरगर्वमुद्रामु ॥’

अत्र वागादिकर्तृकस्य परस्पराध्यापनस्य बाधान्माधुर्यसंक्रान्तिविशेषणस्य लक्षणया बुध्यमानस्य प्रयोजनं स्वप्रयोज्यान्योन्योपमानोपमेयभाव: ।

अथ दोषा: ।

तत्र तावत्प्रागुक्ता यावन्त उपमाया दोषा:, अनुक्ताश्च विस्तृतिभयात्‍, ते सर्वेऽप्युपमात्वाक्तान्तत्वादस्यामपि बोध्या: । अयं पुनरन्योऽपि दोष:--यदेकोपमावैलक्षण्यमपरस्यामुपमायाम्‍ । यथा-- ‘ कमलमिव वदनमस्या वदनेन समं तथा कमलम्‍ ’ अत्र श्रौत्यार्थीकृतं वैलक्षण्यम्‍ । कमलति वदनं तस्या: कमलं वदनायते जगति ’ क्किप्‍क्यडकृतमत्र वैलक्षण्यम्‍ । एवमत्रैव

‘ पद्मं वदनायते’ इति निर्माणे ‘ वक्त्रायते ’ इति वा उपमानोपमेयवाचक-वैलक्षण्यम्‍ । एवंप्रकारैरनेकैर्वैलक्षण्यं यदि सह्लदयोद्वेजकं तदा दोष: ॥

इति रसगंगाधरे उपमेयोपमाप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP