उपमालंकारः - लक्षण १८

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


यथा वा-
‘ विमलतरमतिगभीरं सुपवित्रं सत्त्ववत्सुरसम्‍ । हंसावासं स्थानं मानसमिह शोभते नितराम्‍ ॥’

अत्रानेकार्थानामपि शब्दानां प्रकरणेन कृतेऽपि शक्तिसंकोचे तन्मूलकेन ध्वननेन प्रतीयमानस्य, सरोवररूपस्यार्थान्तरस्याप्रस्तुतस्याभिधानं भूदिति प्रकृताप्रकृतयोरुपमानोपमेयभाव: प्रधानवाक्यार्थतया कल्प्यते ।

द्वितीयो यथा-
‘ अद्वितीयं रुचात्मानं दृष्ट्बा किं चन्द्र दृप्यसि । भूमण्डलमिदं सर्वं केन वा परिशोधितम्‍ ॥ ’

अत्र मूढादिपदाप्रयोगादसूयादेरप्रत्ययान्मुख्यतयोपमैव व्यड्रया । अथात्र सादृश्यस्य पदार्थान्तरत्वे बोधो विचार्यते-अरविन्दसुन्दर-मित्यत्रारविन्दनिरूपितसादृश्यप्रयोजकं लक्ष्यते । तच्च सुन्दरपदार्थैकदेशेन सौन्दर्येणाभेदसंसर्गेणान्वेति ।
तेनारविन्दनिरूपितसादृश्यप्रयोजकाभिन्न-

सौन्दर्यवदभिन्नमिति धी: । निपातातिरिक्तनामार्थयोर्भेदेनान्वयस्याव्युत्पन्न-त्वादभेदानुसरणम्‍ । एकदेशान्वयस्तु देवदत्तस्य नप्तेत्यादाविवात्राप्यभ्यु-पेय: । ‘ समासस्यैव विशिष्टार्थे शक्ति: ’ इत्येके । ‘ अरविन्दपदमेव लक्षणया सर्वार्थबोधकं, सुन्दरपंद तु तात्पर्यग्राहकम्‍ ’ इत्यपरे ।

तथा अरविन्दमिव सुन्दरमित्यत्रेवार्थे सादृश्येऽरविन्दस्य निरूपितत्व-संसर्गेणान्वय: । तस्य च प्रयोजकतासंसर्गेण सौन्दर्ये । एवं चारविन्द-

निरूपितसादृश्यप्रयोजकसौंदर्यवदभिन्नमिति । अरविन्दमिवेत्यत्र त्वर-विन्दनिरूपितसादृश्यवदिति निपातजन्योपस्थितिप्रयोज्यप्रकारतानिरूपित-विशेष्यता-निपातजन्योपस्थितिप्रयोज्यविशेष्यतान्यतर भिन्नविशेष्यतासंस-र्गेण नामार्थप्रकारकबोध एव विशेष्यतया विभक्तिजन्योपस्थितेर्हेतुत्वादिवा-र्थस्य नञर्थस्येव भेदसंसर्गेण नामार्थविशेष्यत्वे विशेषणत्वे च न दोष: ।

अरविन्दमिव भातीत्यत्रारविन्दनिरूपितसादृश्यस्य प्रकारतासंबन्धेन धात्व-र्थेऽन्वयादरविन्दसादृश्यप्रकारकधीविशेष्य इति । तत्रैव सौन्दर्येणेति धर्मो-पादाने तृतीयार्थ: प्रयोज्यत्वं धात्वर्थे भाने इवार्थे सादृश्ये वान्वेति ।

तेन सौन्दर्यप्रयोज्यारविन्दनि रूपितसादृश्यप्रकारकधीविशेष्य इति । तथा गज इव गच्छति, पिक इव रौतीत्यादावुपमानपदानां तत्कर्तृकक्रियाचां लक्षणया गाजादिगमनादिसदृशगमनाद्यनुकूलकृतिमानिति ।

ननु घटो न पश्यतीत्यत्र घटान्विताभावस्य दर्शने कर्मतासंसर्गेणा-न्वयवारणाय धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतासंसर्गेण शाब्दबोधं प्रति विशेष्यतया विभक्त्यर्थोपस्थितेर्हेतुत्वम्‍ । एवं च गज इव गच्छति,

पिक इव रौतीत्यादौ नेवाद्यर्थस्य सादृश्यस्य धात्वर्थेऽन्वय: संभवति । तस्माद्नजादिसादृश्यस्य गमनादिकर्तर्येवान्वय: स्वगमनादिसदृशगमना-दिकर्तृत्वेन समानधर्मेण । इत्थमेव चाख्यातवादशिरोमणिव्याख्यातृ-भिरपि सिद्धान्तितमिति चेत्‍, नैवम्‍ । गज इव गच्छतीत्यत्र सादृश्यस्य

विधेयतया प्रतीतेरपलापापते: । गज इव य: पुरुष: स गच्छति, पुरुषो य: स गज इव गच्छतीति वाक्याभ्यां भिन्नप्रतीत्योरानुभविक-त्वात्‍ । एवं वनं गज इव गृहं देवदत्तो गच्छतीत्यादौ वनादे: सर्वथै-वानन्वयापत्तेश्च । ऐवं बिम्बप्रतिबिम्बभूतस्य कारकमात्रस्यानन्वयो बोध्य: । तस्माद्रजनिरूपितसादृश्यप्रयोजकगमनाश्रय इत्येव गज इव गच्छतीत्यत्र धी: । कारकोपादाने तूपमानपदानां तत्कर्तृकक्रियायां लक्षणेत्येव साधु । न च प्रागुक्तकार्यकारणभावस्य धात्वर्थनिष्ठेत्यादेर्व्य भिचार:, तस्यानड्रीकारात्‍ । अड्रीकारे च तूष्णीमारात्पृथगित्याद्यर्थानां

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP