उपमालंकारः - लक्षण ९

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


एवमेव
मुख्यतया वाच्यतायामपि । यथा ह्मापणादौ विक्रीयमाणतायां कनकताट-ड्कस्य रत्नाद्यलंकारान्तरोपस्कार्यत्वे तस्यैव च कामिनीकर्णालंकरणतायां पुन: प्रधानान्तरसांनिध्यात्ताटड्कस्य तद्नतरत्नानां च साक्षात्परम्परया च कर्णादिशोभोपस्कारकतया यथा तदलंकारत्वम्‍, एवमेव रसादिसांनिथ्ये रूपकादेस्तदुपस्कारकस्यालंकारान्तरस्य च रसाद्यलंकारतेति ।

एवं च प्राचां पञ्चविंशतिभेदाया: पुन: पञ्चविधतायां सपादशतं भेदा: । द्वात्रिंशद्भेदवादिनां तु षष्ठयुत्तरं शतम्‍ । इतश्वान्ये‍ऽपि प्रभेदा: कुशाग्रीयधिषणै: स्वयमुद्भावनीया: । तत्र कचिदनुगाम्येव धर्म: । कचिच्च केवलं बिम्बप्रतिबिम्बभावमापन्न: । कचिदुभयम्‍ । क्कचिद्वस्तुप्रतिवस्तुभा-वेन करम्बितं बिम्बप्रतिबिम्बभावम्‍ । क्कचिदसन्नप्युपचरित: । क्कचिच्च केवलशब्दात्मक: ।

पत्राद्यो यथा-
‘ शरदिन्दुरिवाह्लादजनको रघुनन्दन: । वनस्रजा विभाति स्म सेन्द्रचाप इवाम्बुद: ॥’
अत्र पूर्वार्धे सकृन्निर्देशाद्धर्मोऽनुगामी ।
केवलबिंबप्रतिबिंबभावापन्न: ‘ कोमलातपशोणाभ्र-’ इत्यत्र  बोध्य: । द्वितीयार्धे तूभयम्‍ ।
तृतीयो‍ऽपि त्रिविध:- विशेषणमात्रयोर्विशेष्यमात्रयोस्तुद्युगलयोर्वा वस्तुप्रतिवस्तुभावेन करम्बित: ।

तत्राद्यो यथा-
‘ चलद्भृड्रमिवाम्भोजमधीरनयनं मुखम्‍ । तदीयं यदि दृश्येत काम: क्रुद्धोऽस्तु किं तत: ॥’
अत्र चलनाधीरत्वयोर्वशेषणयोर्वस्तुत एकरूपयोरपि शब्दद्वयेनो-पादानाद्वम्तुप्रतिवस्तुभाव: । तद्विशेषणकयोश्व भृड्रनयनयोर्बिम्बप्रतिबिम्ब-भाव: । इति तत्करम्बितोऽयमुच्यते ।

तत्र द्वितीयो यथा-
आलिड्रितो जलधिकन्यकया सलीलं लग्न: प्रियंगुलतयेव तरुस्तमाल: । देहावसानसमये ह्लदये मदीये देवश्वकास्तु भगवारविन्दनाभ: ॥’

अत्रालिड्रितत्वलग्रत्वयोर्वस्तुप्रतिवस्तुभाव: । तद्विशेष्यकयोश्व जल-धिकन्याप्रियंगुलतयोर्बिम्बप्रतिबिम्बभाव: । इत्ययमपि तत्करम्बित एव ।

तत्र तृतीयो यथा-
‘ दशाननेन दृप्तेन नीयमाना बभौ सती । द्विरदेन मदान्धेन कृष्यमाणेव पद्मिनी ॥’

अत्र विशेषणयोर्दृप्तत्वमदान्धत्वयोर्विशेष्ययोश्च नीयमानत्वकृष्यमा-णत्वयोर्वस्तुप्रीतवस्तुभावेनोभयत: संपुटितो दशाननद्विरदयोर्बिम्बप्रति-बिम्बभाव: । इत्ययमपि तत्करम्बित: ।

‘ विमलं वदनं तस्या निष्कलड्कमृगाड्कति ’ इत्यत्र वैमल्यनिष्कलड्कत्व-योर्वस्तुत एकरूपयोर्बिम्बप्रतिबिम्बभावनिर्मुक्तं वस्तुप्रतिवस्तुभावमापन्न-योरुपमानिष्पादकत्वं यद्यस्ति तदा शुद्धं वस्तुप्रतिवस्तुभावमापन्नोऽप्येष षष्ठो धर्म : । न च ‘ कोमलातपशोणाभ्रसंध्याकालसहोदर: ’ इत्यादौ यति-संध्याकालयोरुपमायां  धर्मान्तरस्यानवगमात्कुड्‍कुमालेपकषायवसनयो: कोमलातपशोणाभ्रयोश्च बिम्बप्रतिबिम्बभावो यथावश्यमभ्युपेय:, प्रकृते

तु न तथा वस्तुप्रतिवस्तुभाव: । वदनमृगाड्कयो: सौन्दर्यरूपसाधारणधर्मस्य प्रतीयमानत्वेन धर्मान्तरानपेक्षणादिति वाच्यम्‍ । एवं तर्हि ‘ यान्त्या मुहुर्वलितकंधरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या ’ इति भवभूति-पद्येऽपि प्रतीयमानेन सौन्दर्येणैव सामान्येन विर्वाहे कंधरावृन्तयोर्बिम्ब-प्रतिबिम्बभावस्य वलितत्वाऽऽवृत्तत्वयोर्वस्तुप्रतिवस्तुभावस्य च सकलैरालं-कारिकै: स्वीकारो विरुद्ध: स्यात्‍ । अतो यथास्थितमेव साधु ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP