उपमालंकारः - लक्षण ४

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


एवम्‍

‘ उपमानोपमेयत्वयोग्ययोरर्थयोर्द्बयो: ।
ह्लद्यं साधर्म्यभुपमेत्युच्यते काव्यवेदिभि: ॥ ’

इति प्राचामपि लक्षणं प्रत्युक्तम्‍ । ह्लद्यतामात्रेण निर्वाहे विशेषणान्तर-वैयर्थ्यात्‍ । एवं काव्यप्रकाशोक्तमपि ‘ साधर्म्यमुपमा भेदे’ इति लक्षणं नातीव रमणीयम्‍ । व्यतिरेके निषेधप्रतियोगिनि सादृश्ये‍ऽतिव्यापनात्‍ । न च पर्यवसितत्वेन साधर्म्य विशेषणीयमिति वाच्यम्‍ । अनन्वयस्थ-सादृश्यस्यापर्यवसायित्वेनैव वारणे भेदविशेषणवैयर्थ्यापत्ते: । काव्यालं-कारप्रस्तावे लैकिकालैकिकप्रधानवाच्यव्यड्र योपमासामान्यलक्षणकरणा-नौचित्याच्च । अत एव ‘ भेदाभेदतुल्यत्वे साधर्म्यमुपमा ’ इत्यलंकारसर्व-स्वोक्तमपि लक्षणं तथैव । एवं ‘ प्रसिद्धगुणेनोपमानेनाप्रसिद्धगुणस्योपेमयस्य सादृश्यमुपमा । इत्यलंकाररत्नाकरोक्तमपि न भव्यम्‍ । श्लेषमूलकोपमायां तादृशशद्बात्मकस्य धर्मस्य कविनैव कल्पनात्‍, तेन रूपेणोपमानस्या-प्रसिद्धेश्व इत्यलं परकीयदूषणगवेषणया । प्रकृतमनुसराम: ।

अस्याश्वोपमाया: प्राचामनुसारेण केचिद्भेदा उदाह्लियन्ते । तथाहि-उपमा द्विविधा, पूर्णा लुप्ता च । पूर्णा तत्र-श्रौती आर्थी चेति द्विधा भवन्ती वाक्यसमासतद्धितगामितया षोढा । लुप्ता च-उपमानलुप्ता, धर्मलुप्ता, वाचकलुप्ता,धर्मोपमानलुप्ता, वाचकधर्मलुप्ता, वाचकोपमेय-लुप्ता, धर्मोपमानवाचकलुप्तेचि तावत्सप्तविधा । तत्रोपमानलुप्ता-वा-क्यगा, समासगा चेति द्विविधा । धर्मलुप्ता-समासगता-श्रौती, आर्थी । वाक्यगता-श्रौती, आर्थी । तद्धितगता च-आर्थ्येव, न श्रौती । इति पञ्चविधा । वाचकलुप्ता-समासगता, कर्मक्यज्गता, आधारक्यज्गता, क्यड्रता, कर्मणमुल्गता, कर्तृणमुल्गता चेति षड्‍ विधा । धर्मोपमानलुप्ता-

वाक्यगता, समासगता चेति द्विविधा । वाचकधर्मलुप्ता । किब्गता, समासगता चेति द्विविधैव । वाचकोपमेयलुप्ता त्वेकविधा । धर्मोपमान वाचकलुप्ता तु समासगतैकविधा । इति । एवं साकल्येनैकोनविंशतिर्लुप्ता-भेदा: पूर्णाभैदै: सह पञ्चविंशति: क्रमेणोदाह्लियन्ते ।

तत्र पूर्णा श्रौती वाक्यगता यथा-

‘ ग्रीष्मचण्डकरमण्डलभीष्मज्वालसंसरणतापितमूर्ति: । ’

अत्र प्रावृषेण्य इत्यनेन वारिधरविशेषणेन नैराकाड्रयात्‍, इवेन समास इत्येव पाठान्नित्यत्वाभावाद्वारिधरेणापि नेवस्य समास: । एषा चोपमा-नोपमेययोर्वारिधरभगवतोर्वेदनाहरणकर्तृत्वस्य साधारणधर्मस्य सादृश्य-बोधकस्येवशब्दस्य चाभिधानात्पूर्णा । सादृश्यस्य श्रुत्या बोधनाच्छ्रौती । पूर्णा आर्थी वाक्यगता यथा-

‘ प्राणापहरणेनासि तुल्यो हालाहलेन मे । शशाड्क केन मुग्धेन सुधांशुरिति भाषित: ॥
पूर्णा श्रौती समासगा यथा-

‘ हरिचरणकमलनखगणकिरणश्रेणीव निर्मला नितराम्‍ । शिशिरयतु लोचनं मे देवव्रतपुत्रिणी देवी ॥’
अत्रेवेन समास: ।

पूर्णा आर्थी समासगा यथा-
‘ आनन्दनेन लोकानामातापहरणेन च । कलाधरतया चापि राजन्निन्दूपमो भवान्‍ ॥’

पूर्णा श्रौती आर्थी च तद्धितगा यथा-
‘ निखिलजगन्महनीया यस्याभा नवपयोधरवत्‍ । अम्बुजवद्विपुलतरे नयने तद्रह्म संश्रये सगुणम्‍ ॥ ’
अत्र पूर्वार्धे बते: ‘ तत्र तस्येव’ इति सादृश्ये विधानाच्छ्रौती । उत्तरार्धे ‘ तेन तुल्यं-इति विधानात्सादृश्यवदर्थकतया आर्थी ।

उपमानुलुप्ता वाक्यगा यथा-

‘ यस्य तुलामधिरोहसि लोकोत्तरवर्णपरिमलोद्नारै: । कुसुमकुलतिलक चम्पक न वयं तं जातु जानीम: ॥’

यत्तुलनामधिरोहसीत्याद्यचरणनिर्माणे इयमेव समासगा । उपमाना-भावेन सादृश्याभावस्य पर्यवसानात्सादृश्यपर्यवसानस्य चोपमाजीवित-त्वादलंकरान्तरमेवात्र नोपमानलुप्तेति नाशड्कनीयम्‍ । यस्य तुलामारोहसि न तं वयं जानीम इत्युक्त्या अस्माकमसर्वज्ञत्वादस्मदगोचर: को‍ऽपि

तवोपमानं भविष्यतीति सादृश्यपर्यवसानमस्तीत्युपमानलुप्तैवेयमुपमा, नालंकारान्तरम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP