अथर्वशीर्षन्यासा:

गणेशाच्या प्रस्तुत उपासना केल्याने सर्व मनोकामना पूर्ण होतात.


अस्य श्रीअथर्वशीर्षमंत्रस्य । गणक ऋषि: । निचृद्रायत्री छंद: । गणपतिर्देवता । गं बीजम्‌ । अं शक्ति: । मं कीलकम्‌ । मम मनोवांच्छितकामनासि द्धयर्थं अथर्वशीर्षजपे विनियोग: ।
गणकऋषये नम: शिरसि । निचृद्नायत्रीछंदसे नम: मुखे । गणेशदेवतायै नम: ह्रदये । मं कीलकाय नम: गुह्ये । गं बीजाय नम: नाभौ । अं शक्तये नम: पादयो: ।
अथ अंगुलिन्यास: ।
ॐ गां अंगुष्ठाभ्यां नम: ।
ॐ गीं तर्जनीभ्यां नम: ।
ॐ गूं मध्यमाभ्यां नम: ।
ॐ गैं अनामिकाभ्यां नम: ।
ॐ गौं कनिष्ठिकाभ्यां नम: ।
ॐ ग: करतलकरपृष्ठाभ्यां नम: ।
ॐ गां ह्रदयाय नम: ।
ॐ गीं शिरसे स्वाहा ।
ॐ गूं शिखायै वषट्‌ । ॐ गैं कवचाय हुम्‌ ।
ॐ गौं नेत्रत्रयाय वौषट्‌ ।
ॐ ग: प्रचोदयात्‌ अस्त्राय फट ।
इति ह्रदयादिन्यास: ।
अथ ध्यानम्‌ ।
रक्तांभोधिस्थपोतोल्लसदरुणसरोजाधिरूढं त्रिनेत्रम्‌ । पांश चैवांकु शं वै रदनमभयदं बाहुभिर्धारयन्तम्‌ ॥
शक्त्या युक्तं गजास्यं पृथुतरजठरं नागयज्ञोपवीतम्‌ । देवं चन्द्रार्धचूडं सकलभयहरं विघ्नराजं नमामि ॥१॥

एवं ध्यात्वा मानसोपचारै: संपूज्य ।
ॐ नमो हेरम्बाय नम: ।
पृथिव्यात्मकं गंधं परिकल्पयामि ।
ॐ उमासुताय नम: ।
हं आकाशात्मकं पुष्पं परिकल्पयामि ।
ॐ अघनाशनाय नम: ।
यं वाय्वात्मकं धूपं परिकल्पयामि ।
ॐ लंबोदराय नम: ।
रं तेजात्मकं दीपं परिकल्पयामि ।
ॐ शिवसूनवे नम: ।
वं अमृतात्मकं नैवेद्यं परिकल्पयामि ।
ॐ श्रीचिंतामणिमयूरेश्वराय नम: ।
सर्वात्मकान्‌ तांबूलादिछत्रचामरान्‌ तान्‌ पंचपंचांगुलैमुद्रया परिकल्पयामि ।
शं नो मित्र: । शं वरुण: । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पति: । शं नो विष्णुरुरुक्रम: ॥ नमो ब्रह्मणे नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम्‌ । अवतु वक्तारम्‌ । ॐ शांति: शाति शांति: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP