मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
विष्णुरुवाच । संसारमोहनस...

संसारमोहनं गणेशकवचम् - विष्णुरुवाच । संसारमोहनस...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


विष्णुरुवाच ।
संसारमोहनस्यास्य कवचस्य प्रजापति: ।  ऋषिश्छन्दश्च बृहती देवो लम्बोदर: स्वयम् ॥१॥
धर्मार्थकाममोक्षेषु विनियोग: प्रकीर्तित: । सर्वेषां कवचानां च सारभूतमिदं मुने ॥२॥
ॐ गं हुं श्रीगणेशाय स्वाहा मे पातु मस्तकम् । द्बात्रिंशदक्षरो मन्त्रो ललाटं मे सदावतु ॥३॥
ॐ हीं क्लीं श्रीं गमिति च सन्ततं पातु लोचनम् । तालुकं पातु विघ्नेश सन्ततं धरणीतले ॥४॥
ॐ हीं श्रीं क्लीमिति च सन्ततं पातु नासिकाम् । ॐ गौं गं शूर्पकर्णाय स्वाहा पात्वधरं मम ॥५॥
दन्तानि तालुकां जिह्लां पातु मे षोडशाक्षर: ॥६॥
ॐ लं श्रीं लम्बोदरायेति स्वाह गण्डं सदावतु । ॐ क्लीं हीं विघ्ननाशाय स्वाहा कर्णे सदावतु ॥७॥
ॐ श्रीं गं गजानननायेति स्वाहा स्कन्धं सदावतु । ॐ हीं विनायकायेति स्वाहा पृष्ठं सदावतु ॥८॥
ॐ क्लीं हीमिति कड्कालं पातु वक्ष:स्थलं च गम्  । करौ पादौ सदा पातु सर्वाड्रं विध्ननिघ्नकृत् ॥९॥
प्राण्यां लम्बोदर: पातु आग्रेय्यां विघ्ननायक: । दक्षिणे पातु विघ्नेशो नैरृत्याम तु गजानन: ॥१०॥
पश्चिमे पार्वतीपुत्रो वायव्यां शड्करात्मज: । कृष्णस्यांशश्चोत्तरे च परिपूर्णतमस्य च ॥११॥
ऐशान्यामेकदन्तश्च हेरम्ब: पातु चोर्ध्वत: । अधो गणाधिप: पातु सर्वपूज्यश्च सर्वत: ॥१२॥
स्वप्ने जागरणे चैव पातु मां योगिनां गुरु: ॥१३॥
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् । संसारमोहनं नाम कवचं परमाद्‍भुतम् ॥१४॥
श्रीकृष्णेन पुरा दत्तं गोलोके रासमण्डले । वृन्दावने विनीताय मह्यं दिनकरात्मज ॥१५॥
मया दत्तं च तुभ्यं च यस्मै कस्मै न दास्यसि परं वरं सर्वपूज्यं सर्वसड्कटतारणम् ॥१६॥
गुरुमभ्यर्च्य विधिवत् कवचं धारयेत्तु य: । कण्ठे वा दक्षिणे बाहौ सो‍ऽपि विष्णुर्न संशय: ॥१७॥
अश्चमेधसहस्त्राणि वाजपेयशतानि च । ग्रहेन्द्रकवचस्यास्य कलां नार्हन्ति षोडशीम् ॥१८॥
इदं कवचमज्ञात्वा यो भजेच्छड्करात्मजम् ॥ शतलक्षप्रजप्तोऽपि न मन्त्र: सिद्धिदायक: ॥१९॥

इति श्रीब्रह्मवैवर्तपुराणे संसारमोहनं गणेशकवचं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP