मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
विष्णुरुवाच ॥ गणेशमेकदन्त...

गणेशनामाष्टकं स्तोत्रम् - विष्णुरुवाच ॥ गणेशमेकदन्त...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


विष्णुरुवाच ॥
गणेशमेकदन्तं च हेरम्बं विघ्ननायकम् ॥ लम्बोदरं शूर्पकर्णं गजवक्त्रं गुहाभजम् ॥१॥
नारायणे च पुत्रस्य ऋणु मातर्हरप्रिये । स्तोत्राणां सारभूतं च सर्वविघ्नहरं परम् ॥२॥
ज्ञानार्द्थवाचको गश्र्च गश्र्च निर्वाणवाचक: । तं शरीरे परं ब्रह्म गणेशं प्रणाम्यहम् ॥३॥
एकशब्द: प्रधानार्थी दन्तश्च बलवाचक: । बलं प्रधानं सर्वस्मादेकदन्तं नमाम्यहम् ॥४॥
दीनार्थवाचको हेश्च रम्ब: पालकवाचक: । दीनानां परिपालकं हेरम्बं प्रणमाम्यहम् ॥५॥
विपत्तिवाचको विघ्नो नायक: खण्डनार्थक: । विपत्खण्डनकारकं नमामि विघ्ननायकम् ॥६॥
विष्णुदत्तैश्र्च नैवेद्यैर्यस्य लम्बोदरं पुरा । पित्रा दत्तैश्च विविधैर्वन्दे लम्बोदरं च तम् ॥७॥
शूर्पाकारौ च यत्कर्णौ विघ्नवारणकारणौ । सम्पदौ ज्ञानरूपौ च शूर्पकर्णं नमाम्यहम् ॥८॥
विष्णुप्रसादपुष्पं च यन्मूर्घ्रि मुनिदत्तकम् । तद्रजेन्द्रवक्त्रयुक्तं गजवक्त्रं नमाम्यहम्  ॥९॥
गुहस्याग्रे च जातोऽयमाविर्भूतो हरालये । वन्दे गुहाग्रजं देवं सर्वदेवाग्रपूजितम् ॥१०॥
एतन्नामाष्टकं दुर्गे नामभि: संयुतं परम् । पुत्रस्य पश्य वेदे च तदा कोपं तथा कुरु ॥११॥
एतन्नामाष्टकं स्तोत्रं नानार्थसंयुतं शुभत् । त्रिसन्ध्यं य: पठेन्नित्यं स सुखी सर्वतो जयी ॥१२॥
ततो विघ्ना: पलायन्ते वैनतेयाद्‍ यथोरगा: । गणेश्वरप्रसादेन महाज्ञानी भवेद्‍ ध्रुवम् ॥१३॥
पुत्रार्थी लभते पुत्रं भार्यार्थी विपुलां स्त्रियम् । महाजड: कवीन्द्रश्च विद्यावांश्च भवेद्‍ गणेशनामाष्टकं स्तोत्रं सम्पूर्णम् ।    

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP