मराठी मुख्य सूची|मराठी साहित्य|अभंग संग्रह आणि पदे|श्रीमहालक्ष्मीची पदे|
श्रीमहालक्ष्मीची पदे भाग ३

श्रीमहालक्ष्मीची पदे भाग ३

देवीभागवत महापुराणात करवीर निवासिनी महालक्ष्मीला प्रथम स्थान दिले आहे, तिरूपति बालाजीच्या दर्शनानंतर महालक्ष्मीचे दर्शन भक्त घेतातच.


धन्योऽहं कृतपुण्योऽहं कृतार्थस्तवदर्शनात्‌ ।
प्रपन्नं पाहि मां देवि सर्वापत्तिविनाशिनि ॥
अद्य मे सुदिनं मातरघ मे सफलं जनु: ।
तपोऽपि सफलं मेऽद्य देवि त्वत्पाददर्शनात्‌ ॥

श्रूयंते पातकघ्नानि तीर्थान्यंभ्यंतराण्यपि ।
सत्यं तीर्थं क्षमातीर्थं तीर्थमिंद्रियनिग्रह: ॥
सर्वभूतदया तीर्थं परोपकृतिसर्जनम्‌ ।
दानतीर्थं तपस्तीर्थं संतोषस्तीर्थमेव च ॥
ब्रह्मचर्यं परं तीर्थं प्रियोक्तिस्तीर्थमेव च ।
धृतिश्च मानसं तीर्थं ज्ञानतीर्थं ततोऽधिकम्‌ ॥
तीर्थान्यमुत्तम तीर्थं विशुद्धिर्मानसस्य च ।
इत्येतानि च तीर्थानि यं संनिधते सदा ।
स तीर्थस्नानजं पुण्यमश्नुते साध्वसंशयम्‌ ।

सा निर्मिता विश्वसृजा प्रयत्नाद्‌ -
एकस्थसौंदर्यदिदृक्षयेव ॥

पीठं कोल्लापुरं नाम देवीनां प्रीतिवर्धनम्‌ ।
महालक्ष्मीसनाथस्तु भैरवस्तत्र नायक: ॥
यस्य पूर्वे महालक्ष्मी, स्थिता कोल्ला च दक्षिणे ।
कंकाली पश्चिमे देवी, महाकाली तथोत्तरे ॥
एता पीठेन सहिता: सिद्धराजसरोवरे ।
पीठं दृष्टं समायाता, देवीनां समये तदा ॥

शकापहनृपान्विते नसति चित्रकूटे शिव: ।
शिवं प्रभजते दिशन्निति समीक्ष्य लक्ष्मी: किमु ॥
स्थितात्र शकमर्दितस्थलमलं विहायास्तु सा ।
सतां परमुदे द्रुतं सुफलदा शिवस्य प्रिया ॥

शिवं नत्वा तत: सम्यगविमुक्तेश्वरं तत: ।
कुक्कुटेशं नमस्कृत्य तथान्यानपि सर्वश: ॥

अविमुक्तेश कुक्कुटेशास । तैसेच सर्वत्र इतरांस ।
दत्तपादुका सिद्धीशास । देवीवाहन सिंहातें नमी ॥

संपूज्य मणिकणींशं । विश्वेशं कुक्कुटेश्वरम्‌ ।
अन्यानपि सुरान्‌ सर्वान्‌ करवीरपुरस्थितान्‌ ।

देव-दैत्य-मुकुटांच्या ज्योती । जयांतें नीरांजन करिती ।
त्या देवी, तुझे चरणांप्रती । मंगल व्हावया नमितसे ॥

N/A

References : N/A
Last Updated : March 15, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP