TransLiteral Foundation

यमुनास्तोत्ररत्नम्

भारतात नद्यांना वैदिक काळापासून जीवनदायिनी मानले आहे, आणि त्यांना देवी देवतांच्या रूपात मानून त्यांची पूजा केली जाते.


यमुनास्तोत्ररत्नम्
यमुनास्तोत्ररत्नम्

नमोऽचिन्त्याद्भुताक्लिष्टज्ञानवैराग्यराशये । नाथाय मुनयेऽगाधभगवद्भक्तिसिन्धवे ॥१॥
तस्मै नमो मधुजिदङ्घ्रिसरोजतत्त्वज्ञानानुरागमहिमातिशयान्तसीम्ने ।
नाथाय नाथमुनयेऽत्र परत्र चापि नित्यं यदीयचरणौ शरणं मदीयं ॥२॥
भूयो नमोऽपरिमिताच्युतभक्तितत्त्वज्ञानामृताब्धिपरिवाहशुभैर्वचोभिः ।
लोकेऽवतीर्णपरमार्थसमग्रभक्तियोगाय नाथमुनये यमिनां वराय ॥३॥
तत्त्वेन यश्चिदचिदीश्वरतत्स्वभावभोगापवर्गतदुपायगतीरुदारः ।
संदर्शयन्निरमिमीत पुराणरत्नं तस्मै नमो मुनिविराय पराशराय ॥४॥
माता पिता युवतयस्तनया विभूतिः सर्वं यदेव नियमेन मदन्वयानां ।
आद्यस्य नः कुलपतेर्वकुलाभिरामं श्रीमत्तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना ॥५॥
यन्मूर्ध्नि मे श्रुतिशिरस्सु च भाति यस्मिन्नस्मन्मनोरथपथः सकलः समेति ।
स्तोष्यामि नः कुलधनं कुलदैवतं तत्पादारविन्दं अरविन्दविलोचनस्य ॥६॥
तत्त्वेन यस्य महिमार्णवशीकराणुः शक्यो न मातुं अपि शर्वपितामहाद्यैः ।
कर्तुं तदीयमहिमस्तुतिं उद्यताय मह्यं नमोऽस्तु कवये निरपत्रपाय ॥७॥
यद्वा श्रमावधि यथामति वाप्यशक्तः स्त्ॐयेवं एव खलु तेऽपि सदा स्तुवन्तः ।
वेदाश्चतुर्मुखमुखाश्च; महार्णवान्तः को मज्जतोरणुकुलाचलयोर्विशेषः ? ॥८॥
किं चैष शक्त्यतिशयेन न तेऽनुकम्प्यः स्तोतापि तु स्तुतिकृतेन परिश्रमेण ।
तत्र श्रमस्तु सुलभो मम मन्दबुद्धेरित्युद्यमोऽयं उचितो मम चाब्जनेत्र ! ॥९॥
नावेक्षसे त्यदि ततो भुवनान्यमूनि नालं प्रभो भवितुं एव कुतः प्रवृत्तिः ? ।
एवं निसर्गसुहृदि त्वयि सर्वजन्त् स्वामिन्! चित्रं इदं आश्रितवत्सलत्वं ॥१०॥
स्वाभाविकानवधिकातिशयेशितृत्वं नारायण ! त्वयि न मृष्यति वैदिकः कः ? ।
ब्रह्मा शिवः शतमखः परमस्वराडित्येतेऽपि यस्य महिमार्णवविप्रषस्ते ॥११॥
कश्श्रीः श्रियः ? परमसत्त्वसमाश्रयः कः ? कः पुण्डरीकनयनः ? पुरुषोत्तमः कः ? ।
कस्यायुतायुतैककलांशकांशे विश्वं विचित्रचिदचित्प्रविभागवृत्तं ॥१२॥
वेदापहारगुरुपातकदैत्यपीडापद्विमोचनमहिष्ठफलप्रदानैः ।
कोऽन्यः प्रजापशुपती परिपाति ? कस्य पादोदकेन स शिवः स्वशिरोधृतेन ? ॥१३॥
कस्योदरे हरविरिञ्चमुखः प्रपञ्चः ? को रक्षतीमं ? अजनिष्ट च कस्य नाभेः ? ।
क्रान्त्वा निगीर्य पुनरुद्गिरति त्वदन्यः कः ? केन वैष परवानिति शक्यशङ्कः ? ॥१४॥
त्वां शीलरूपचरितैः परमप्रकृष्टसत्त्वेन सात्त्विकतया प्रबलैश्च शास्त्रैः ।
प्रख्यातदैवपरमार्थविदां मतैश्च नैवासुरप्रकृतयः प्रभवन्ति बोद्धुं ॥१५॥
उल्लङ्घितत्रिविधसीमसमातिशायिसंभावनं तव परिब्रढिमस्वभावं ।
मायाबलेन भवतापि निगुह्यमानं पश्यन्ति केचिदनिशं त्वदनन्यभावाः ॥१६॥
यदण्डं अण्डान्तरगोचरं च यद्दशोत्तराण्यावरणानि यानि च ।
गुणाः प्रधानं पुरुषः परं पदं परात्परं ब्रह्म च ते विभूतयः ॥१७॥
वशी वदान्यो गुणवानृजुः शुचिर्मृदुर्दयालुर्मधुरः स्थिरः समः ।
कृती कृतज्ञस्त्वं अपि स्वभावतः समस्तकल्याणगुणामृतोदधिः ॥१८॥
उपर्युपर्यब्जभुवोऽपि पूरुषान्प्रकल्प्य ते ये शतं इत्यनुक्रमाथ् ।
गिरस्त्वदेकैकगुणाव्धीप्सया सदा स्थिता नोद्यमतोऽतिशेरते ॥१९॥
त्वदाश्रितानां जगदुद्भवस्थितप्रणाशसंसारविमोचनादयः ।
भवन्ति लीलाविधयश्च वैदिकास्त्वदीयगम्भीरमनोऽनुसारिणः ॥२०॥
नमो नमो वाङ्मनसातिभूमये नमो नमो वाङ्मनसैकभूमये ।
नमो नमोऽनन्तमहाविभूतये नमो नमोऽनन्तदयैकसन्धिवे ॥२१॥
न धर्मनिष्ठोऽस्मि, न चात्मवेदी, न भक्तिमांस्त्वच्चरणारविन्दे ।
अकिञ्चनोऽनन्यगतिः शरण्य ! त्वत्पादमूलं शरणं प्रपद्ये ॥२२॥
न निन्दितं कर्म तदस्ति लोके सहस्रशो यन्न मया व्यधायि ।
सोऽहं विपाकावसरे मुकुन्द ! क्रन्दामि सम्प्रत्यगतिस्तवाग्रे ॥२३॥
निमज्जतोऽनन्त ! भवार्णवान्तश्चिराय मे कूलं इवासि लब्धः ।
त्वयापि लब्धं भगवन्निदानीं अनुत्तमं पात्रं इदं दयायाः ॥२४॥
अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं हि दुःखं ।
किं तु त्वदग्रे शरणागतानां पराभवो नाथ ! न तेऽनुरूपः ॥२५॥
निरासकस्यापि न तावदुत्सहे महेश ! हातुं तव पादपङ्कजं ।
रुषा निरस्तोऽपि शिशुः स्तनन्धयो न जातु मातुश्चरणौ जिहासति ॥२६॥
तवामृतस्यन्दिनि पादकङ्कजे निवेशितात्मा कथं अन्यदिच्छति ।
स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरकं हि वीक्षते ॥२७॥
त्वदङ्घ्रिं उद्दिश्य कदापि केनचिद्यथा तथा वापि सकृत्कुतोऽञ्जलिः ।
तदैव मुष्णात्यशुभाब्यशेषतः शुभानि पुष्णाति न जातु हीयते ॥२८॥
उदीर्णसंसारदवाशुशुक्षणिं क्षणेन निर्वाप्य परां च निर्वृतिं ।
प्रयच्छति त्वच्चरणारुणाम्बुजद्वयानुरागामृतसिन्धुशीकरः ॥२९॥
विलासविक्रान्तपरावरालयं नमस्यदार्तिक्षपणे कृतक्षणं ।
धनं मदीयं तव पादपङ्कजं कदा नु साक्षात्करवाणि चक्षुषा ? ॥३०॥
कदा पुनः शङ्खरथाङ्गकल्पकध्वजारविन्दाङ्कुशवज्रलाञ्छनं ।
त्रिविक्रम ! त्वच्चरणाम्बुजद्वयं मदीयमूर्धानं अलङ्करिष्यति ॥३१॥
विराजमानोज्ज्वलपीतवाससं स्मितातसीसूनसमामलच्छविं ।
निमग्ननाभिं तनुमध्यमुन्नतं विशालवक्षस्स्थलशोभिलक्षणं ॥३२॥
चकासतं ज्याकिणकर्कशैः शुभैश्चतुर्भिराजानुविलम्भिर्भुहैः ।
प्रियावतंसोत्पलकर्णभूषणश्लथालकाबन्धविमर्दशंसिभिः ॥३३॥
उदग्रपीनांसविलम्बिकुण्डलालकावलीबन्धुरकन्बुकन्धरं ।
मुखश्रिया न्यक्कृतपूर्णनिर्मलामृतांशुबिम्बाम्बुरुहोज्ज्वलश्रियं ॥३४॥
प्रबुद्धमुग्धाम्बुजचारुलोचनं सविभ्रमभ्रूलतं उज्ज्वलाधरं ।
शुचिस्मितं कोमलगण्डं उन्नसं ललाटपर्यन्तविलम्बितालकं ॥३५॥
स्फुरत्किरीटाङ्गदहारकण्ढिकामणीन्द्रकाञ्चीगुणनूपुरादिभिः ।
रथाङ्गशङ्खासिगदाधनुर्वरैर्लसत्तुलस्या वनमालयोज्ज्वलं ॥३६॥
चकर्थ यस्या भवनं भुजान्तरं तव प्रियं धाम यदीयजन्मभूः ।
जगत्समस्तं यदपाङ्गसंश्रयं यदर्थं अम्भोधिरमन्थ्यबन्धि च ॥३७॥
स्ववैश्वरूप्येण सदानुभूतयाप्यपूर्ववद्विस्मयमादधानया ।
गुणेन रूपेण विलासचेष्टितैस्सदा तवैवोचितया तव श्रिया ॥३८॥
तया सहासीनं अनन्तभोगिनि प्रकृष्टविज्ञानबलैकधामनि ।
फणामणिव्रातमयूखमण्डलप्रकाशमानोदरदिव्यधामनि ॥३९॥
निवासशय्यासनपादुकांशुकोपधानवर्षातपवारणादिभिः ।
शरीरभेदैस्तव शेषतां गतैर्यथोचितं श्ष इतीरिते जनैः ॥४०॥
दासस्सखा वाहनं आसनं ध्वजो यस्ते वितानं व्यजनं त्रयीमयः ।
उपस्थितं तेन पुरो गरुत्मता त्वदङ्घ्रिसम्मर्दकिणाङ्कशोभना ॥४१॥
त्वदीयभुक्तोज्जिहितशेषभोजिना त्वया निसृष्टात्मभरेण यद्यथा ।
प्रियेण सेनापतिना न्यवेदि तत्तथानुजानन्तं उदारवीक्षनैः ॥४२॥
हताखिलक्लेशमलैः स्वभावतस्त्वदानुकूल्यैकरसैस्तवोचितैः ।
गृहीततत्तत्परिचारसाधनैर्निषेव्यमाणं सचिवैर्यथोचितं ॥४३॥
अपूर्वनानारसभावनिर्भद्रप्रबद्धया मुग्धविदघलीलया ।
क्षणाणुवत्क्षिप्तपरादिकालया प्रहर्षयन्तं महिषीं महाभुजनं ॥४४॥
अचिन्त्यदिव्याद्भुतनित्ययौवनस्वभावलावण्यमयामृतोदधिं ।
श्रियः श्रियं भक्तजनैकजीवितं समर्थं आपत्सखं अर्थिकल्पकं ॥४५॥
भगवन्तं एवानुचरन्निरन्तरं प्रशान्तनिश्शेषमनोरथान्तरः ।
कदाहं ऐकान्तिकनित्यकिङ्करः प्रहर्षयिष्यामि सनाथजीवितः ॥४६॥
धिगशुचिं अविनीतं निर्भयं मां अलज्जं परमपुरुष योऽहं योगिवर्याग्रगण्यैः ।
विध्शिवसनकाद्यैर्ध्यातुं अत्यन्तदूरं तव परिजनभावं कामये कामवृत्तः ॥४७॥
अपराधसहस्रभाजनं पतितं भीमभवार्णवोदरे ।
अतगिं शरणागतं हरे कृपया केवलं आत्मसात्कुरु ॥४८॥
अविवेकघनान्धदिङ्मुखे बहुधा सन्ततदुःखवर्षिणि ।
भगवन्भवदुर्दिने पथः स्खलितं मां अवलोकयाचियुत ॥४९॥
न मृषा परमार्थं एव मे शृनु विज्ञापनं एकं अग्रतः ।
यदि मे न दयिष्यसे ततो दयनीयस्तव नाथ दुर्लभः ॥५०॥
तदहं त्वदृते न नाथवान्मदृते त्वं दयनीयवान्न च ।
विधिनिर्मितं एतं अन्वयं भगवान्पलय मा स्म जीहपः ॥५१॥
वपुरादिषु योऽपि कोऽपि वा गुणतोऽसानि यथातथाविधः ।
तदयं तव पादपद्मयोरहं अद्यैव मया समर्पितः ॥५२॥
मम नाथ यदस्ति योऽस्म्यहं सकलं तद्धि तवैव माधव ।
नियतस्वं इति प्रबुद्धधीरथ वा किं नु समर्पयामि ते ॥५३॥
अवबोधितवानिमां यथा मयि नित्यां भवदीयतां स्वयं ।
कृपयैवं अनन्यभोग्यतां भगवन्भक्तिं अपि प्रयच्छ मे ॥५४॥
तव दास्यसुखैकसङ्घिनां भवनेषु अस्त्वपि कीटजन्म मे ।
इतरावसथेषु मा स्म भूदपि मे जन्म चतुर्मुखात्मना ॥५५॥
सकृत्त्वदाकारविलोकनाशया तृणीकृतानुत्तमभुक्तिमुक्तिभिः ।
महात्मभिर्मां अवलोक्यतां नय क्षणेऽपि ते यद्विरहोऽतिदुस्सहः ॥५६॥
न देहं न प्राणान्न च सुखं अशेषाभिलषितं न चात्मानं नान्यत्कि अपि तव शेषत्वविभवाथ् ।
बहिर्भूतं नाथ क्षणं अपि सहे यातु शतधा विनाशं तत्सत्यं मधुमथन विज्ञापनं इदं ॥५७॥
दुरन्तस्यानादेरपरिहरणीयस्य महतो निहीनाचारोऽहं नृपशुरशुभस्यास्पदं अपि ।
दयासिन्धो बन्धो निरवधिकवात्सल्यजलधे तव स्मारं स्मारं गुणगणं इतीच्छामि गतभीः ॥५८॥
अनिच्छन्नप्येवं यदि पुनरितीच्छन्निव रजस्तमश्छन्नच्छद्मस्तुतिवचनभङ्गीं अरचयं ।
तथापीत्थंरूपं वचनं अवलम्ब्यापि कृपया त्वं एवैवम्भूतं धरणिधर मे शिक्षय मनः ॥५९॥
पिता त्वं माता त्वं दयिततनयस्त्वं प्रियसुहृत्त्वं एव त्वं मित्रं गुरुरसि गतिश्चासि जगतां ।
त्वदीयस्त्वध्बृत्यस्तव परिजनस्त्वद्गतिरहं प्रपन्नश्चैवं सत्यहं अपि तवैवास्मि हि भरः ॥६०॥
जनित्वाहं वंशे महति जगति ख्यातयशसां शुचीनां युक्तानां गुणपुरुषतत्त्वस्थितिविदां ।
निसर्गादेव त्वच्चरणकमलाइकान्तमनसां अधोऽधः पापात्मा शरणद निमज्जामि तमसि ॥६१॥
अमर्यादः क्षुद्रश्चलमतिरसूयप्रसवभूः कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः ।
नृशंसः पापिष्ठः कथं अहं इतो दुःखजलधेरपारादुत्तीर्णस्तव परिचरेयं चरणयोः ॥६२॥
रघुवर यदभूस्त्वं तादृशो वायसस्य प्रणत इति दयालुर्यच्च चैद्यस्य कृष्ण ।
प्रतिभवं अपराद्धुर्मुग्ध सायुज्यदोऽभूर्वद किं अपदं आगस्तस्य तेऽसि क्षमायाः ॥६३॥९
ननु प्रपन्नस्सकृदेव नाथ तवाहं अस्मीति च याचमानः ।
तवानुकम्प्यस्स्मर्तः प्रतिज्ञानां मदेकवर्जं किं इदं व्रतं ते ॥६४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-05T18:51:00.4200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

scumboard

  • पु. मळीवाहरोधी 
RANDOM WORD

Did you know?

What is Gotra?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.