गङ्गास्तवः

भारतात नद्यांना वैदिक काळापासून जीवनदायिनी मानले आहे, आणि त्यांना देवी देवतांच्या रूपात मानून त्यांची पूजा केली जाते.


श्रीगणेशाय नमः ॥
सूत उवाच --
शृणुध्वं मुनयः सर्वे गङ्गास्तवमनुत्तमम् । शोकमोहहरं पुंसामृषिभिः परिकीर्तितम् ॥१॥

ऋषय ऊचुः --
इयं सुरतरङ्गिणी भवनवारिधेस्तारिणी स्तुता हरिपदाम्बुजादुपगता जगत्संसदः ।   
सुमेरुशिखरामरप्रियजलामलक्षालिनी प्रसन्नवदना शुभा भवभयस्य विद्राविणी ॥२॥
भगीरथरथानुगा सुरकरीन्द्रदर्पापहा महेशमुकुटप्रभा गिरिशिरःपताका सिता ।
सुरासुरनरोरगैरजभवाच्युतैः संस्तुता विमुक्तिफलशालिनी कलुषनाशिनी राजते ॥३॥
पितामहकमण्डलुप्रभवमुक्तिबीजा लता श्रुतिस्मृतिगणस्तुतद्विजकुलालवालावृता ।
सुमेरुशिखराभिदा निपतिता त्रिलोकावृता सुधर्मफलशालिनी सुखपलाशिनी राजते ॥४॥
चरद्विहगमालिनी सगरवंशमुक्तिप्रदा मुनीन्द्रवरनन्दिनी दिवि मता च मन्दाकिनी ।
सदा दुरितनाशिनी विमलवारिसन्दर्शन-प्रणामगुणकीर्तनादिषु जगत्सु संराजते ॥५॥
महाभिषसुताङ्गना हिमगिरीशकूटस्तना सफेनजलहासिनी सितमरालसच्चारिणी ।
चलल्लहरिसत्करा वरसरोजमालाधरा रसोल्लसितगामिनी जलधिकामिनी राजते ॥६॥
क्वचिन्मुनिगणैः स्तुता क्वचिदनन्तसम्पूजिता क्वचित्कलकलस्वना क्वचिदधीरयादोगणा ।
क्वचिद्रविकरोज्ज्वला क्वचिदुदग्रपाताकुला क्वचिज्जनविगाहिता जयति भीष्ममाता सती ॥७॥  
स एव कुशली जनः  प्रणमतीह भागीरथीं स एव तपसां निधिर्जपति जाह्नवीमादरात् ।
स एव पुरुषोत्तमः स्मरति साधु मन्दाकिनीं स एव विजयी प्रभुः सुरतरङ्गिणीं सेवते ॥८॥   
तवामलजलाचितं खगसृगालमीनक्षतं चलल्लहरिलोलितं रुचिरतीरजम्बालितम् ।
कदा निजवपुर्मुदा सुरनरोरगैः संस्तुतोऽप्यहं त्रिपथगामिनि प्रियमतीव पश्याम्यहो ॥९॥
त्वत्तीरे वसतिं तवामलजलस्नानं तव प्रेक्षणं त्वन्नामस्मरणं तवोदयकथासंलापनं पावनम् ।
गङ्गे मे तव सेवनैकनिपुणोऽप्यानन्दितश्चादृतः स्तुत्वा चोद्गतपातको भुवि कदा शान्तश्चरिष्याम्यहम् ॥१०॥
इत्येतदृषिभिः प्रोक्तं गङ्गास्तवनमुत्तमम् ।  स्वर्ग्यं यश्स्यमायुष्यं पठनाच्छ्रवणादपि ॥११॥    
सर्वपापहरं पुंसां बलमायुर्विवर्धनम् । प्रातर्मध्याह्नसायाह्ने गङ्गासान्निध्यता भवेत् ॥१२॥
इत्येतद्भार्गवाख्यानं शुकदेवान्मया श्रुतम् । पठितं श्रावितं चात्र पुण्यं धन्यं यशस्करम् ॥१३॥   
अवतारं महाविष्णोः कल्केः परममद्भुतम् । पठतां शृण्वतां भक्त्या सर्वाशुभविनाशनम् ॥१४॥

इति श्रीकल्किपुराणेऽनुभागवते भविष्ये तृतीयांशे ऋषिकृतो गङ्गास्तवः सम्पूर्णः ॥

N/A

References : N/A
Last Updated : November 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP